पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७
पट्पञ्चाशोऽध्याय

श्रीवत्साइो रक्तत्रयसमन्वितः सुवर्णरजत ताप्रदारूणामन्यतमेन सलक्षणमेव कौतुकं कारयेत् । अलक्षणे तु तत्सर्व भस्मसाद्भवति सकलत्वात्तस्य ।

उपासनाद्वयाधिकारिणः

निरालम्बाराधनं सङ्कल्पधनिनां श्रेष्ठाश्रमिणाम । सालम्ब सम्यक संसारनिष्ठान्नं भुक्तिमुक्तिफलप्रदत्वात् । अभीक्ष्णदर्शनात् परिचर्यया भक्तिर्भवति । नृणामभक्ताना कृतं सर्व निष्फलम् । तस्माद्भक्तिहेतुत्वात् सलक्षणं परमपुरुषरूपं कृत्वा श्रिया सहैव संस्थाप्य प्रकृतिपुरुषावर्चयित् । सालम्बाराधने कौतुकसम्पत् सर्वेषां सम्पदिति विजायते ।

इति श्रीवैखानसे भगवच्छासे कश्यपप्रोते जानकाण्डे रूपद्वयलक्षण नाम पञ्चपञ्चाशोऽध्यायः ।।

॥अथ षट्पञ्चाशोऽध्यायः ॥

कौतुकादि द्रव्याणि

मणिलोहोपलदारूणि कौतुकार्हद्रत्याणि । तत्रौत्सव दारुपाषाणरत्नैः नैव कारयेत्।

रत्नमैदा : रत्नन्यासः

वज्र मौक्तिक पद्मरागेन्द्रनील गोमेघ वैडूर्य मरकत प्रवाल' पुष्यकान्त चन्द्रकान्त सूर्यकान्त लोहिताक्षोत्पल' सौगन्धिक स्फटिक कुरुविन्द महा नीलाश्चेत्येते सप्तदश शुद्धजातयो मणयो भवन्ति । उपलभेदाश्चानेक तत्रेन्द्रनीलवैदूर्य पद्मराग मरतक प्रवाल वजात्यतेचोत्तमाः । सौगन्धिक


2. छ. फतप्रद स्यात् च 3. छ. नृणा भक्ति विना कृत 4. छ. प्रवालमरकतक. 5. छ. उपल, 6. छ. महा नीलनीलावत्येते.