पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
श्रीवैखानसे भगवच्छासे काश्यपीये जानकाण्डे

1धुवबेरस्यानुरूपमेव तत्कौतुकं बिम्ब कारयेत् । ध्रुवबेरे स्थिते स्थित मासीनेऽप्यासीनं शयाने स्थितमासीनं वा । तस्मिन् धुवे शयाने कौतुकबिम्बं शयान् नैव कारयेत । आसीनेऽप्यासीन् स्थितं नैवेतेि केचित । सर्वत्रौत्सवमचर्चाच स्थितमेवेत्यन्ये । प्रदुर्भावेिष्वपि तद्धुवबेरानुरूपं कौतुकबिम्बं विष्णु चतुर्भुजं बा कारयेदिति विज्ञायते ।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते जानकाण्डे धुपजेरलक्षणं नाम चतुःपञ्चाशोऽध्यायः ।।

॥अथ पञ्चपञ्चाशोऽध्यायः॥

भगवतो रूपद्वयम्

अथार्चनाकौतुकारम्भसक्रिया त्याख्यास्यामः । अचलं यलमिति द्विविधं भगवतो रूपम् । तत्र सर्वगं व्योमाभमपोहलक्षणं ब्रह्माचैरप्यनभिलक्ष्यं निष्कल मचलम् । तदाराधनं नेिरालम्बं तत्स्थानीयं धुवरूपमें । तस्मादचलमात्मनो 2यदिभन्न सवदिवात्मकं मत्स्याद्यशजनकं3 सकलं तच्घलम् । तदाराधनं सालम्बं तत्स्थानीय कौतुकम् । तस्मात् 4महाबेरे दोषेऽपि कौतुकसम्पदा5 नश्यति । धुव बेरं परऽज्योतीरूपं तदलक्षणमपि 6न दोषाय भवतेि, अरूपत्घात्तस्य ।

निष्कलसकलरूपे

यदा निष्कलं सूक्ष्मं परंज्योतिर्नारायण इति च कीत्र्यते तदा स्थूलः सकलस्तदा विष्णुरिति । विष्णुः सुवर्णबण रक्तास्यपाणिपादाक्षः शुकपिञ्छाम्बरधरः किरीटकेयूरहारप्रलम्बकटिसूत्रोज्ज्वलित 7 शङ्खचक्रधरः


प्र ट कोक्षयोः न दृश्यते ततः पश्चादः ध्रुवजेरमचर्या च स्थितमेवेत्यन्ये प्रादुर्भावेिष्यत्यादि च दृश्यते. 2. b. उद्भिन्न. 3. छ. ज्ञयनक. 4. छ. बेरादयोऽपि. 5. क, सम्पदा तस्यापि सम्पत्. 6. च . तटदोषाय 7. क. सूत्रायुज्ज्वलितः