पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९५
चतुःपञ्चाशोऽध्याय

योगादिस्थापनाधिकारिणः

योगार्थी योगमार्ग पुत्रार्थी सुखार्थी च सुखमार्ग धनैश्वर्यभोगार्थी भोग मार्ग वीर्यार्थी वीरमार्ग विरहार्थि विरहमार्गमेतेषामभीष्टमार्गेण धुवबेरं कारयेत् ।

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे स्थानकासनशयनेषु योगादिभेदो नाम त्रिपञ्चाशोऽध्यायः ।।

॥अथ चतुःपञ्चाशोऽध्यायः॥

धुवबेरद्वैविध्यम्

धुवबेरस्यैवैष भेदो न कौतुकबिम्बस्य । धुवकौतुकसंयुक्त ध्रुवार्चनमित्य चना द्विविधा भवति । 1धुवबेरं कौतुकजिम्बञ्च प्रतिष्ठाप्यार्चन ध्रुवकौतुकः संयुतं सर्वाङ्गमुक्तप्रमाणैः सम्पूर्णम् । झुवबेरविधानेन शिलयैव कृत्वा ब्राहो कौतुकबिम्बस्थाने अर्चनार्थं वर्णविहीनं प्रतिष्ठाप्यार्चनं ध्रुवार्चनम् । एतत्स्थान कासन्नयोरेव ििहतम । नैव शयने कर्तव्यम ।

2ऐहिकामुष्मिकपेक्षी धुवकौतुकसंयुक्तं केवलामुष्मिकापेक्षी पुबार्चनं कुर्यात् । यथैकस्मिन् गृहे त्रेताग्नीन् कल्पयति 3तथैकस्मिन् विमाने कौतुक् मौत्सवमर्चेति त्रीणि बेराणि कल्पयेत् । प्रधानार्चनार्थमुत्सवार्थ स्नपनार्थ उचैतद्बेराणि4

कालान्तरे प्रतिष्ठायां विशेषः

प्रथमप्रतिष्ठायां त्रयाणामप्यलाभे कौतुकबिम्बमेकमेव प्रतिष्ठाप्य 5पश्चा दन्योलभे प्रतिष्ठापनं कर्तव्यम् । धुबबेरेरण कौतुकबिम्बस्यैकस्यैव सम्बन्धो नान्येषाम् । तस्मातदेकमेव स्थापयेदित्येके ।


1. छ, धुर्वबेरे कौतुकबिम्बस्थाने प्रतिष्ठाप्यार्चन युवकौतुकेत्यादि. 2 छ ऐहेिकापेक्षी, M. ऐहेिकामुत्र. 3. छ. तथैव विमाने. 4. छ. चैव तद्बेराणि. 5. छ पादपि.