पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
श्रीवैखानसे भगवच्छासे काश्यपीये जानकाण्डे

महीमार्कण्डेयाभ्यां मार्कण्डेयपुण्याभ्यां वा युक्त योगासनम् । देव्यर्चकमुनिः भिर्विनाकृतं वा तथा देवीभ्यामर्चकमुनिभ्यां वा1 संयुक्त सुखासनम् । 2तद्देवीभ्यां तन्मुनिभ्याञ्च सहितमपरभित्त्याश्रये चामरधारिणीभ्यां मायासंहलादिनीभ्यां किष्किन्धसुन्दराभ्या बा युक्त मूर्नि सन्निहितहस्तेन नमस्कारकऽचन्द्रा दित्याभ्याञ्च सहित भोगासनम् । देव्यर्चकमुनिभिः सहितं 3 रहितं वा देवस्य [ण यूतं जानूपरिविन्यस्तप्रसारितहस्तद्वयसहितं वीरासन्म् । देवीभ्यां रहितमर्चकमहीमार्कण्डेयसहितं वीरासनमित्येक ।

शयनम्

केचिदैविकभागयुत मानुष्ये स्थापनीय शयनम् । तदपि योगं भोगं वीरमिति त्रिविधम् । उपधाने निहित दक्षिणहस्तं प्रसारितं वामहस्तं तदुप धाननिहितमकुटभूध्वननं किञ्चिदुन्मीलितं चक्षुः प्रसारितपादं देवं शयानं कृत्वा तदुपरि भित्यूर्वभागेो नाभिपद्मे समासीन ब्रह्माणं 4तद्भिक्त्याश्रयान् पञ्चायुधान् पादपार्श्व स्थिताभ्यो समुद्रतरङ्गाच्छादितजानुभ्यानुग्रवेग 5मधुकैटभासुराभ्यां अर्चकमहीमार्कण्डेयाभ्याञ्च सहेितं कुर्यादेतद्योगशयनम् । किञ्चिद्द्रारनिरी क्षिताननं दक्षिणहस्तेन धृतमकुटं किञ्चित्कुञ्चितप्रसारितवामहस्तं तदुपधाने थोजितदक्षिणकरमनन्तशयने समासीनं पवित्र्यूरुन्यस्तदक्षिणपादं तथाऽऽसीन मह्यरुन्यस्तवामपदं शयान देवं तत्पादे निहितद्विहस्तया 6पादमर्दिन्या श्रिया भूम्या च संयुतं पूर्ववद्ब्रह्माणं पञ्घायुधरूपैश्च सहितं कुर्यादितद्भोगशयनम् । उपधाने किञ्चिदस्पृष्टमकुटं यथा तथोपधाने निहितदक्षिणहस्तेन धृतमकुटं द्वारं समयडनिरीक्षितलोचनाननं7 विस्मयोत्फुल्ललोचनं प्रसारितवामहस्त द्विहस्तयुतं 8चक्रशङ्ख्यु तस्ताभ्यां 9चतुस्तियुतं वा देवं कुर्यादितद्वीरशयनम् ।


1. बा इति छ. पाठे नास्ति, 2. ट. मात्रे, तत्. 3. हितमिति छ कोशे न दृश्यते 4. b, भिक्त्याश्यपञ्चायुधरूपै. 5. छ 6. ट. पादमर्दनयिकया. 7. छ लोचनं. ३. छ, चकशङ्खधर. 9. छ. चतुर्हस्तमेव कुर्यात्