पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
त्रिपञ्चाशोऽध्यायः

पाशविचित्रितं 1नानारत्ननिबन्धनं तदधस्तात्रीणि सूत्राणि कल्पयेत् । एवमेवा न्यत्र विस्तृतं 2ज्ञात्वा आभरणान्यलझरयुक्तानि कारयेत् ।

शङ्खचक्रायामं चतुज्वलायुतं चक्रास्यविस्तारं कोलकं चतुर्दशारं मध्य ग्रन्थियुतं शङ्खमध्यमविस्तारं प्राणायामं ज्वालायामभागमेवमनुत्तं 3 तत्र ज्ञात्वा लक्षणयुतं रम्यं कारयेदिति विज्ञायते ।

इति श्रीवैस्रानसे कश्यपप्रोते ज्ञानकाण्डे किरीटादिमानविभागो नाम द्विपञ्चाशोऽध्यायः।

॥अथ त्रिपञ्चाशोऽध्यायः॥

स्थानकासनशधनानिः स्थानकम्

अथ स्थानकासन्नशयनभेदं4 वक्ष्यामि । विमाने गर्भगुहे दैवेिकभागं त्रिधा कत्वा तदपरे तद्विभागे पैकभागे वा स्थानकं स्थाप्यमेतद्योग भोग विरह वीरमितेि चतुर्विधं भवति । श्रीभूमिभ्यां रहितं दक्षिणे मुनिना मार्कण्डेयेन अचकिन बामे च भूगुणा सहितं दक्षिणे भूम्या वामे मार्कम्डेयेनार्चकेन सहितं वा योगस्थानकं तथा देवीभ्या रहितं अर्चवेिऽन्न मार्कण्डेयेन भृगुणा च सहितं दक्षिणे दण्डकेन वामे च गरुडेन युतं योगस्थानकमिति केचित् । 5तथा देवीभ्यामर्चकमुनिभ्याञ्च संयुतं भोगस्थानकमेतैस्सर्वश्च विरहितं वीरस्थानकं देवीभ्यां रहितमर्चकमुनिभ्या सहितं वा 6शहून्खचक्राभ्यां रहितं वीरस्थानकमिति ।

आसनम्

तथा दैविकभागं त्रिधा कृत्वा 7दैविकभागयुतमानुष्ये स्थाप्यमासनम् । तच्च योगं सुखं भोगं वीरमिति चतुर्विधम् । तथा देवीभ्यां रहितमर्चकमुनिभ्या


1. छ. नवरत्नप्रबन्धन. 2. ड. ज्ञात्वाभरणान्य. लंकारयुतानि कारयेत् म. आभरणाौः नत्यमलङ्कारयुक्तकानि. 3. छ. तत्र तत्र. 4. M. शयनेषु. 5, छ. अय. 8. छ. चक्रशङ्खाभ्या. 7. छ. तदव भागयुत