पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥अथैकपञ्चाशोऽध्यायः ॥

बिम्बमानविभाग:

कर्णाद्धिक्कान्तरायामं वेदं हिक्काया द्विमुखे जत्रुणी स्याताम् । हिक्का सूत्रात् स्तनाक्षं 1कण्ठाद्वक्षसोऽन्तसमं स्तनाक्षिमण्डलं द्वियवाधिकं कोलकं 2स्तनाक्षि द्वियवं तदर्धमूर्वमुच्ष्ट्रयं स्तनान्तरमुखायामं नाभिनिम्नं वेदयव श्रोणीमान यवाधिकं तीर्थं विस्तारं नयनं सीवन्या झोतस्तत्वमत्युक्त कोर्परायामं मणिबन्धं चतुर्यवाधिकं 3समयं तत्समा मध्यमा अगुष्ठफनिष्ठे ित्रयवाधिकभागे अनामिका यवाधिकं समयं तत्समा प्रदेशिनी पर्वाणि त्रिण्यङ्गुलाना द्विपर्वमङ्गुष्ठं पर्वार्ध नखायाममडगष्ठनखविस्तार पडयवं मध्यभायाम चतुर्यवं शेषाणां यवहीनमङ्गुष्ठमणिबन्धाभ्यामन्तरं दहनं पाष्णिभागे 5वामाङ्गुष्ठं वेदं प्रदेशिनी तद्वद्यवाधिका 6त्रिमात्रार्धाधिकं मध्यमायामं अनामिकाया द्वियवाधिर्फ कोलक कोलकं तस्मात्ककुद्यवाधिकं भागं ककुत्कटेिसन्ध्योरन्तरं फुहूरत्युतेनाभत्तं सहजहीना द्वाचांसफलके चतुर्यवं तीर्थमाने स्फिकूपिण्डावूरुमूलाद्वेदाङ्गुलोन्नतौ स्याताम् । कटिसन्धिविस्तारं चतुर्यवाधिकं (?) 7द्वारयुता पङ्क्तस्फिक्पिण्डायामविस्तारं अघधिकं द्वारमेवं ज्ञात्वा शेपं युक्त्या बुद्धया हृद्य मनोजं कारयेत् ।

ब्रह्मादयोऽपि तदूपलक्षणनिश्चयं ज्ञातुमशक्ताश्चित्तभितौ तद्भप भक्तितूलिकया सङ्कल्प्यं वर्णेरालिख्याऽलोकयन्ति । 8तस्माद्भक्तिरेव कारणम् । 9तत्रातोऽभोक्ष्णदर्शनयोग्यं तत् भगवदूपं कल्पयेत् ।

इति श्रीवैखानसे कश्यपप्रोक्ते ज्ञानकाण्डे कतिपयावयवमानविधिनम एकपञ्चाशोऽध्यायः।


1. छ. कर्णात्. 2. ट. स्तानाक्ष. 3. छ. समय. 4. ट. तद्वत्, 5. छ. पादाङ्गुष्ट. 6. ट. त्रिमात्रार्धमध्यमा वरं, 7. छ, द्वारयुतपड् क्तिभिः . 8. ट. तस्माद्भक्त्यैककारण तत्रातः, छ. तस्माद्दर्शनयोग्य. 3. B, तत्रातोऽमीष्टदर्शनयोग्य