पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे 1“भूयाम कृत्या” “नमस्सुलोमि” “स एको भृत्” “देवस्य त्चा” अतो सर्वरत्नसमन्वितं हाटकाम्बुजमध्ये कोलकोच्छूयं जातरूपमयं श्रीरूपं कृत्वा “शं सा नियच्छ” त्विति द्वाराभिमुखं प्रतिष्ठाप्य अश्वत्थमूलशैलार्णवसरोवल्मीक वृषश्रृङ्गजदन्तजदर्भमूलगवां गोष्ठेषु मृदं सट्टह्य ब्रह्मादीनां यथाक्रमेण तत् स्थाने तन्मन्त्रेण विनिक्षिपेदिति । सरस्वतीयज्ञभाण्डछुक्झुवकमण्डलूनि सौवर्णेन वृद्धयर्थ ब्राह्मणानां क्षत्रियाणां ध्वजशस्रायुधानि वैश्यानां “तुलातोदौ शूद्राणां हलं सुवर्णेन कृत्वा “हिरण्यरूप” इति स्थापयेदिति । मेघविद्युल्लता रूपौ कृत्वा राष्ट्राभिवृद्धयर्थ “ये ते शत” मिति प्रतिष्ठापयेदिति ।। इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे रत्नन्यासविधिनम पञ्चचत्वारिंशोऽध्यायः ।। । अथ चट्चत्वारिंशोऽध्यायः ।। एवं कृत्वा प्रोक्षणैः प्रोक्ष्य श्वभ्रं वाससा आच्छादयेत् । स्थापकानू वस्त्राभरणादिभिरलङ्गत्य ओङ्करजयशब्दै *ततायैराघोध्य “प्रतद्विष्णुस्तक्त” इति ब्राहो मुहूर्ते शूलं संस्थापयेत् । ध्रुवसूतं जपति । अविच्छिन्ने कनि क्रदादि जपन् सुदृढं सुस्थितं अचलं तापयित्वा “नमो वरुण” इति क्षीरेण क्षालयेत् । देव्योरप्युभयोः पार्ध तत्सूत्रे द्वियवान्तरे तथैव संस्थाप्य ब्रह्म कुष्यान्तरे किञ्चित् पश्चिममाश्रित्य ऋष्योः शूलं संस्थाप्य हिरण्येनोद्वत्र्य स्पृष्ट्वैव शूलं अतो देवादि सहस्रशीर्षाद्येकाक्षराद्यात्वाहार्षादि विष्णोर्नुकादीन् जप्त्वा सध्ये सर्वदोषोपशान्त्यर्थ शान्तिं व्याहृतिपर्यन्तमग्न्यास्ये जुहोति । 1. भूय आत्मकृत्या मुदितपाठ. 2. जातमयमयामा 4. म. तुलां 5. रूपे इति स्यात् . ६. छ. तानानैः घ. तानकमथैः 7. ग. जप्त्वा . अस्पृष्ट्वब. १. म. वैष्णवं पुरुषसूतं थ जप्त्वा सभ्य इत्यादि. 6.छ.