पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे 'रथादीनारोप्य अगारं गत्वा अमितानपयिनौ संस्थाप्य देवेशं प्रणम्य शुभाशुभं ज्ञात्वा शान्तिं हुत्वा आरभेतेति विज्ञायते । इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे महापुजारूपकल्पनं नाम चत्वारिंशोऽध्यायः ।। । अथ एकचत्वारिंशोऽध्यायः ।। शूलपाणम् अथ शूललक्षणम् । प्रोक्षणैः प्रोक्ष्य अतो देवादिना अग्रं 'रुद्रमन्य' मितेि “मध्यं ब्रह्मजज्ञान' मित्यधस्तादभिमृश्य गोदानसूतेन वास्येन(स्या?) तक्षयेत । पश्याच्छिल्पी भगवन्तं छियात्वा उऊध्र्वभागे दक्षिणे दक्षिण करं वामे वाम करं मध्ये वंशदण्डं अधोभागे तथा पादादूरुदण्डायामे षड्विशत्यङ्गुलं जान्वोर्भागं जड् वा ऊरूसमे चरणौ जानुसमौ पाष्ण चतुरङ्गुले "पुरस्ता दादित्याङ्गुलमूरू जडेघ च भवत इत्यङ्गिराः । कटेिदण्डायामं चतुर्यवाधिकं ऋत्विक्परिणाहं क्रियाङ्गुलं कोलकं शिखायामविस्तारमर्धाधिकाङ्गुलं पलाशमुकु लोपमं वंशदण्डं चतुरश्र विस्तारं भागायाममश्धिनीयुतं षष्ट्यङ्गुलं वक्षोदण्डायामं द्वात्रिंशदङ्गुलं बहुलमर्धाधिकं तालं विस्तारं पर्वपार्श्वयोर्भुजभेदेन "शिखाः कार्या: । शिखायामं कोलकं तदर्धविस्तारं वक्षोदण्डं त्रिभिश्छिदैः तद्वत्कटिः दण्डञ्च । पार्धदण्डायामं प्राजापत्यविस्तारमर्धाधिकं त्रिमात्रमूध्वधशिखामानं कोलकं बाहुदण्डायाममङ्गनायुतं “त्रिष्टुप् प्रकोष्ठदण्डायाममेकोनविंशत्यङ्गुलं भूजनाहं* प्रादेशपरिमण्डलं प्रकोष्ठं वस्वङ्गुलं 1‘ध्रुववदानुपूर्येण काश्र्यवत् 1. B. रथदिना. 2. इदं. क कोशमात्रं दृश्यते, 3. क, दारु प्रोक्षणै: 4, छ. मध्यमं. 5. वास्थने िक कोशे नास्ति. संलक्ष्ये दत्यस्ति. 8. क. सहध्यात्व. 7. ल. दक्षिणं. 8. क, पाददण्डमूरु. 9. छ. अर्धजानु. 10. क. अङ्गुल 3. पुरस्तादि. त्यङ्गुलं. 11. छ. शिखरकार्य. 12. त्रिकं प्रकोष्ठ. B. नुझुप्प्र प्रकोष्ठ 13. छ, नामं 14. ग . शुावानुपूर्येण