पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

ब्रह्माणं वामे किष्किन्धं तद्बहिः वक्रतुण्डानन्तौ रविभौमभन्दहेमश्यामसितभृगु सोमरुद्रान् प्रागादीशानन्तं तृतीये गुहवीरक्षकदुर्गारोहिणीमातृधिपणाज्येष्ठ पुष्परक्षकस बलिरक्षकान् क्रमेण स्थापयेत् । मूर्तिभेदप्रतिष्ठाचेत् तत्रोक्तविधिना कारयेत् । अत्र 1सूत्रप्रदर्शितविमानानि परिवाराणां 2मानालझरभेदाश्च तन्त्रेणैव, न कात्स्न्ये नोक्तानि ।

वर्णहीनं 3वा उपलजम् । 4वर्णयुते नाहाद्यविहीनं प्रकल्प्य वर्ण योजयेत् । अयुश्रीकीर्तिवृद्धिदं सौम्यं सर्वकामफलप्रदं स्थानकं, पुण्यवृद्धिद मासनं, शयनं योगैश्वर्यप्रदम् । तस्मात् स्थानकसुखासनशयनयोगासनान्क्रमेण आश्रमिणः कुर्वन्तीति भृगुः । तस्मात् सम्यक् परीक्ष्य इच्छानुरूपं कारयेदिति 5विज्ञायते ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपोते ज्ञानकाण्डे परिबारालयविधानं नाम एकोनचत्वारिंशोऽध्यायः ।।

॥अथ चत्वारिंशोऽध्यायः॥

महापूजारूपकल्पनम्, दारुसङ्ग्रहः

अथ महापूजारूपकल्पनं व्याख्यास्यामः । महामूर्त आयु श्रीकीर्ति मिच्छन् शिलया, प्रजापुण्यवृद्धिमिच्छन् ताम्रण, योगौश्वर्यसुखार्थी दारुणा, सुवर्णभूम्यादीच्छन् मृण्मयेन कल्पयेत् । महारूपं मृदा चोपलैरेव कारयेत् । तस्य पूर्वं 6मृदरणात् शूलग्रहणं कारयेत् । 7 शुभक्षं पूर्वोक्तगुणसम्पन्न गुरु झग्वस्त्राभरणाशिभिरल्कृत्य अनुज्ञाप्य जितं त’ इति भगवन्तं प्रणम्य प्रतद्विष्णु स्तवत' इति देवागारं प्रदक्षिणीकृत्योक्तलक्षणसम्प शिलोनमम्बरादिभिरामन्य8


1. क. सू. 2. छ. नामलङ्करभेदानि तन्त्रैकासौम्येनोक्तविहीनं वा उपलक्षणं 3 A बौपस्वक्षणम्. 4. क. वर्ण युक्तमन्यविहीनं. 5. A इति कश्यपः . 6. B. मृण्मयार्थ इं. दारुणा. 7. छ. शुभर्षे शयननक्षत्रे . 8. A. जतंकृत्यामिमन्त्रप.