पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे

॥अथ अष्टत्रिंशोऽध्यायः॥

प्रकृतिपुरुषयोः स्वरूपम्

प्रकृतिपुरुषौ 1उभावनादी । 2ताभ्यां लोकप्रवर्तनम् । 3विकारगुणाः सर्वे 4प्रकूतिसमुद्भूताः । कार्यकारणकर्तृत्वे हेतुः प्रकृतिः । सा प्रकृतिः श्रीरिति व्याख्याता । पुरुषः सुखदुःखानां भोक्तत्वे हेतु, 5प्रकृतिजान् गुणान् भुङ्क्ते । प्रकृत्यैव सर्वाणि कर्माणि 6 । तस्मात सर्वप्रयत्नेन श्रियं देवीं पूजयेत् । 7सा च प्रसादानुग्रहपरा वैष्णववत्सला । ततः श्रियन्तु साधयेद्य त्रात् आमृत्योः श्रियमेव काङ्कक्षेत । दुर्लभो 8नैनामवमन्येतेत्येवमाद्याः श्रुतयो 9गृणन्ति।

श्रीपूजाविवैिः, श्रीस्वरूपम्

तस्मात् ग्रामनगरफ्तनादिषु नृपवेश्मसु 10द्विजोदवसितेषु च पूजयेत् । श्रीवत्सन्द्यावर्त 11नन्दीविशालोत्फुल्लसर्वतोभद्रान्यतमे मन्दिरे इन्दिरां सुमुखी माबद्धपट्टमकुटा मुक्तालङ्कारमालिकां 12 सर्वरत्नमण्डित 13 भुक्ताभरणविभूषित गात्रिकां 14बद्धपीनस्तनीं 15कृशमध्यां पृथुत्तरनितम्बबिम्बं धतकौशेयबरुमा देवी देदीप्यमानमेखला 16अनादियौवनसौभाग्यां धृतहस्तसितपङ्कजयुगां 17वरदैकहस्तां धृतरत्नमञ्जरीं वा द्वाभ्यां हस्ताभ्यां धृतकमलां हृद्यां सहस्रादित्यसमप्रभां मन्दारमालालकृतां देवीं पदमासनसमारूढं छायायां कल्पतरोः 18संस्थाप्य तस्या पार्श्व देवेशं तामुपलालयन्तं संस्थाप्य देव्याः पार्श्व 19स्यमन्तककौस्तुभचिन्तामणीन् शङ्खपद्मनिधी संस्थाप्य 20क्ष्माविभूतिशान्तिकान्तिभि व्यजन


1. B. उपेतावनादी. 2. अनादिनिधनाभ्या. 3.B. विदुः 4. म प्रकृत्युत्पन्ना. A प्रकृत्यापन्ना. 5. A. प्रकृतिस्थः पुरुषः. 6. A. क्रियमाणानि करिष्पमाणानि च भवन्ति. क्रियमाणानि तस्मात्सर्वेत्यादि B. कोशपाठ: 7. A. B. सा च प्रसन्ना दासानुग्रहवरा. 3. छ. तत् A. ता. 9. छ. गृहन्ति . 10. A . द्विजोदवसितेपूद्यानेषु च. 11. क. नदीविशात. 12. A. मौलिक. 13. ग. रत्न. मण्डित. ब. 14. B . मात्राबद्धपीन. 15. छ. अकृझ. 16. A. अदियौवन. 17. छ अभयवरंदैक, 18. क. संस्थापितं. 19. च. सनन्द्रकौस्तुभ झ. समन्दक. 20. म. लक्ष्माविभूति.