पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९
एकोनविंशोऽध्यायः

वामदक्षिणोत म्झजानुस्थैकहस्तं प्रसारितावलम्बितोरुस्थैकहस्तं शङ्खचाचरं वा सिंहासने चतुर्भुजं ब्रहोशाभिष्टुतं वा देवीभ्यामृषिभ्यां यज्ञतीर्थाभ्यां ब्रहोशाभ्यां सामभूतीशाभ्यां वाहनशैषिकाभ्यामासीन, गारुडभौतिकसोमच्छन्द चतुस्फुटाद्यतया काम त्रिविक्रमंश्यामलङ्गंद्विबाहुप्रह्मचारिोतस्थितं वामहस्तवृतछब्रमन्वहस्ताक्षा कनकशखिलाभ्यां मुनिभ्यां युतं वामनाकारं, त्रिविक्रमं जानुसमं नाभिसमं वा उद्धृतैकपादं स्थितदक्षिणचरणं चतुर्वाह दुहिणक्षालितालम्बजहुकन्यायुतोतचरणं बलिं वामनयुतं वीज्ञार्दितं भृगुं चन्द्रादित्यनमस्कृतं, श्रीप्रतिष्ठितके महाशङ्खे वा जामदग्न्ये, श्रीप्रतिष्ठितके महाशङ्खे वा रामं सीतासौमित्रियुतं हनुमद्भरताभ्यो, स्वस्तिके चतुस्फुटे वा बलभद्रारामं, गणिकाविहारकुम्भाकरत्रिकूटमहाहंसान्विते रुक्मिणीवीशाभ्यां वा संयुतं श्रीदाम्ना मायूरके कूर्मे चत्वरे वा, ककिं पूर्ववत्

वैराग्ययोगैश्वर्येप्सु मत्स्यकूमौ राजराष्ट्रविवृद्धये वराहं शत्रुदस्युविनाशाया पराजितत्वकाङ्क्षी नृसिंहं राज्यलाभाय विद्यार्थ वामनं त्रिविक्रमऽथ जामदग्न्यं धर्मवृद्धिसुखोकाङ्क्षी रामं योगार्थी सार्वभौम त्व) कामो बलभद्ररामं भोगैश्वर्य सुखप्रीत्यै कृष्णं पापौघविनाय कर्किणं पूजयेदिति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपोते ज्ञानकाण्डे दशावतारविधिनम सप्तत्रिंशोऽध्यायः॥