पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
श्रीवैखानसे भगवच्छात्र काश्यपीये ज्ञानकाण्डे

॥अथ सप्तत्रिंशोऽध्यायः॥

दशावतारस्वरूपम्

मत्स्य कूर्म वराह नरसिंह वामन जामदग्न्यराम दशरथराम बलभद्र 1कृष्ण कल्किन इत्येतान् बृहद्कृतविमाने गर्भागारं द्वादशधा विभज्य आग्नेय्यां पूर्वभागे तप्तहाटकसन्निभं रक्तपद्मारूढं वितस्तिविस्तृतं मत्स्यरूपं, पश्चिमे अञ्जनाभ2 षोडशाङ्गुलविस्तृतं तदधौच्छ्यं कच्छपं चतुरश्रपीठसंस्थितं, 3वराहवदनं श्यामलं चतुर्भुजमुध्यश्रितोत्सङ्ग4 पीताम्बरधरं शङ्खचक्रयुतं नरवराहरूपं 5दंष्ट्राकरालं। सिंहास्यं सटाऽऽटोपं मुक्ताभकं चतुर्भुजं वीरासने संस्थितं नरसिंहं वामनं श्यामाड़परं ब्रह्मचारिव्रते स्थितं, जामदग्न्यं दूर्वाभं रक्तवल्कलसंवृतं 6टङ्कहस्तं जटाधरं, रामं रम्यविभूषणं चापबाणधरं सीरिणं बलभद्ररामं, कृष्णं यौवनशालिं नीलकञ्चितकन्तलं लीलायष्टिधरं, कल्किनं रक्तसप्त्यधिरूढं भिन्नाञ्जनाभं कवचोज्ज्वलसन्नाह करवालकरम् एवं आग्नेयादीशानान्तं8 9द्वारपादं विहाय नवभागेषुदशावतारान्संस्थाप्य10 पश्चिमे भागे अनिरुद्धमादिभूतमनन्ताऽत्मानं स्थापयेत् एतेषां 11 पृथक् पृथग्वा विमानं कल्पयेत् । एकत्र स्थापिते सर्वदानफलं सर्वयज्ञफलं प्राप्य विष्णुलोके महीयत इति विज्ञायते ।

अथ पर्वतोत्सङ्गे नदीतीरे विष्णुच्छन्दविमाने मत्स्यकूम सहैव पूर्ववत् । ब्रहोशाभ्यामर्थितं सर्वतोभद्रे अङ्गनाकारे सोमच्छन्दे वा अरण्ये वाराहं मह्याश्लिष्टं शयानमासीनं स्थानकं वा वीशवासुकियुतं पुण्यधर्माभ्यां पूजितं पुष्टिकाकुमुद्धती व्याजने कुहयद्वारोभयतः ब्रह्मश्रीः राजश्रीः चत्वारो वाहनं वेदाः शैपिकस्तु पुलिन्दाख्यो मुनिः । शेपं युक्तया कारयेत् । पर्वताकारे नन्द्यावर्ते सर्वतोभद्रे पौष्टिकोजलपत्रस्वस्तिकान्यतमे उपरितले नृसिंहं स्पटिकोपलमध्ये वा उत्कुटिकासने स्वस्तिकासनेन वा आसीनं जानुप्रसारीतोक्तम्भद्विबाहुं शङ्खचक्रधरं


1. क. ग. हलिकृष्ण . 2. ३. अञ्जनाम. 4, 8. नगस्थ, 7. B. शङ्खाभद. 8, कः १. ४. दश. 10. 4. संस्थाप्य मध्ये पश्चिमे. 11. एतेपी प्राविमानं.