पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ. १.]
७९
कामधेनुसहिता।

आरोहावरोहनिमित्तं समाधिराख्यायते ॥ १८ ॥

आरोहावरोहक्रमः समाधिरिति गौण्या वृत्त्या व्याख्येयम् ।

क्रमविधानार्थं वा ॥ १९ ॥

 पृथक्करणमिति । पाठधर्मश्च न संभवतीति 'न पाठधर्माः सर्वत्रादृष्टेः' इत्येवं वक्ष्यामः ।

पृथक्पदत्वं माधुर्यम् ॥ २० ॥

 बन्धस्य पृथक्पदत्वं यत् , तत् माधुर्यम् । पृथक् पदानि यस्य स पृथक्पदः, तस्य भावः पृथक्पदत्वम् । समासदैर्घ्यनिवृत्तिपरं चैतत् । पूर्वोक्तमुदाहरणम् ।  विपर्ययस्तु यथा---'चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुला विन्ध्यपादाः।'


 नन्वमुमर्थमभिधातुं समाधिलक्षणवाक्यं न क्षमत इत्याशङ्क्य गौणवृत्तिराश्रयणीयेत्याह-आरोहावरोहेति । क्रमपदेन तन्निमित्तं लक्ष्यत इत्यर्थः ॥

 ननु अवस्था पुनरवस्थावतो यदा न भिद्यते, तदा तीव्रावस्था ओजःप्रसादात्मिकैव भवति । यद्यपि यद्यत् ओजः, तत्तत् आरोह इति नास्ति नियमः; तथापि यो य आरोहः, तत्तत् ओज इति भवति । ततः सत्यं न समाधिना प्रसादः स्वीक्रियते, प्रसादेन च समाधिः संगृह्यत एवेति किमर्थमस्योपादानमित्यत आह- क्रमविधानार्थं वेति । नात्र क्रमः परस्परम् ; अपि तु क्रमेणारोहणं क्रमेणावरोहणमित्येवंरूपः क्रमो ज्ञेयः । नन्वारोहावरोहक्रमः पाठधर्मः किं न स्यादिति चोद्यं वक्ष्यमाणयुक्त्या विघटितमित्याह--- पाठधर्मश्चेति

 माधुर्यमवधारयितुमाह- पृथक्पदत्वमिति । सूत्रार्थं विविङ्क्ते-बन्धस्येति । अव्याप्तिं परिहरति--- समासदैर्घ्यनिवृत्तिपरमिति । पूर्वोक्तमिति । 'अस्त्युत्तरस्याम्' इत्याद्युदाहरणम् । प्रत्युदाहरणमाह-- विपर्ययस्त्विति । समासपददैर्ध्यात् विपर्ययः । दत्तं धृतम् ।