पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८०
[अधि. ३.
काव्यालंकारसूत्रवृत्तिः।

अजरठत्वं सौकुमार्यम् ॥ २१ ॥

 बन्धस्य अजरठत्वम् अपारुष्यं यत् । तत् सौकुमार्यम् । पूर्वोक्तमुदाहरणम् ।

 विपर्ययस्तु यथा- 'निदानं निर्द्वैतं प्रियजनसदृक्त्वव्यवसितिः सुधासेकप्लोषौ फलमपि विरुद्धं मम हृदि।'

विकटत्वमुदारता ॥ २२ ॥

 बन्धस्य विकटत्वं यत् , असौ उदारता । यस्मिन् सति नृत्यन्तीव पदानीति जनस्य वर्णभावना भवति, तत् विकटत्वम् , लीलायमानत्वमित्यर्थः।

 यथा- 'स्वचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झणिति रणितमासीत्तत्र चित्रं कलं च ॥

 न पुनः-- 'चरणकमललग्नैर्नूपुरैर्नर्तकीनां झटिति रणितमासीन्मञ्जु चित्रं च तत्र ।'

अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः ॥ २३ ॥

 यत्र झटित्यर्थप्रतिपत्तिहेतुत्वम् , स गुणः अर्थव्यक्तिरिति । पूर्वोक्तमुदाहरणम् । प्रत्युदाहरणं तु भूयः सुलभं च ।


 सौकुमार्यं पर्यालोचयितुमाह- अजरठत्वं सौकुमार्यमिति । बन्धस्य अजरठत्वं कोमलत्वम् , श्रुतिसुखत्वमिति यावत् । पूर्वोक्तमिति । अस्त्युत्तरस्याम्' इत्याद्युदाहरणम् । प्रत्युदाहरणमाह--विपर्ययस्त्विति । सौकुमार्यस्य विपर्ययः कष्टत्वभिन्नवृत्तत्वे । निर्द्वैतं संशयाभावः । अत्र निर्द्वैतमिति कष्टम् ।

 उदारतामुदीरयितुमाह--विकटत्वमिति । क्रमशो वर्धमानाक्षरपदत्वम् , पदप्रथमाद्यक्षराणां पदान्तरप्रथमाद्यक्षरैः सादृश्यं च । उदाहरणप्रत्युदाहरणे दर्शयति- यथेति

 अर्थव्यक्तिं समर्थयितुमाह--अर्थव्यक्तीति । वृत्तिः स्पष्टार्था । पूर्वोक्तम् 'अस्त्युत्तरस्याम्' इति । सुलभं चेति । 'सपदि पङ्क्तिविहङ्गमनाम्' इत्यादि ।