पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७८
[अधि. ३.
काव्यालंकारसूत्रवृत्तिः।

ओजःप्रसादयोस्तीव्रावस्था ताविति चेदभ्युपगमः ॥ १६ ॥

 ओजःप्रसादयोः क्वचित्तीव्रावस्था । सा च आरोहावरोहाख्येत्येवं चेन्मन्यसे ; अभ्युपगमः न विप्रतिपत्तिः ।

विशेषापेक्षित्वात्तयोः ॥ १७ ॥

 स विशेषो गुणान्तरमेव ।


 ननु न केवलं नदीद्वयवेणिकान्यायेनौजःप्रसादयोः साम्येनावस्थितिः, किंतु 'साम्योत्कर्षौ च' इत्युक्तत्वात्समुद्रकस्थमणिप्रभासमूहन्यायादुच्चावचभावेन स्थितिः । तस्मिन् पक्षे कथमयं समाधिः पृथग्गुण इति शङ्कामपनेतुमाह-- अनैकान्त्याच्चेति । ओजःप्रसादयोरारोहावरोहसाहचर्यनियमो न संभवति, व्यभिचारात् । व्यभिचारस्तु, 'उद्गच्छदच्छसुभगच्छविगुच्छकच्छम्' इत्यादौ, 'यतो यतो निवर्तते ततस्ततो विमुच्यते' इत्यादौ च आरोहशून्यस्यौजसः, अवरोहशून्यस्य प्रसादस्य च स्थितत्वादित्यभिप्रायः ।

 नन्वारोहावरोहावोजःप्रसादयोरवस्थाविशेषौ स्याताम् ; अतो न पृथक् समाधिरिति यदि चोद्येत, तर्हि समाधेर्दत्तो हस्तावलम्ब इति दर्शयितुमनन्तरसूत्रमवतारयति--- ओजःप्रसादयोस्तीव्रावस्था ताविति । शङ्कांशं संकलय्य दर्शयति-- ओजःप्रसादयोः क्वचिदिति । सा चेति । सा च तीव्रावस्था । आरोहावरोहाख्येति । कारणे कार्यत्वमुपचर्योक्तम् ; यद्वक्ष्यति--- 'विशेषापेक्षित्वात्' इति, 'आरोहावरोहनिमित्तम्' इति च । अनुपचारे तु 'विशेषरूपत्वात्' इति, 'आरोहावरोहौ' इति च ब्रूयात् । ओजःप्रसादयोस्तीव्रावस्था आरोहावरोहयोः कारणमित्यर्थः । अनिष्टमापादयन् भवानभीष्टमेवाचष्टे इत्याह--अभ्युपगम इति

 परोक्तस्याभ्युपगमे पर्यवसितमर्थं समर्थयितुमाह-विशेषेति । विशेषः तीव्रावस्थात्मा, तमपेक्षितुं शीलमनयोरिति विशेषापेक्षिणौ तयोर्भावस्तत्त्वं तस्मात् । आरोहावरोहाभ्यामोजःप्रसादयोस्तीव्रावस्था हि स्वनिमित्तत्वेनापेक्षिता । सोऽयमोजःप्रसादव्यतिरेकेण समाधिरन्यो गुण इति सूत्रार्थः ।