पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ १.]
कामधेनुसहिता

 कोऽसावलंकार इत्यत आह-

सौन्दर्यमलंकारः ॥ २ ॥

 अलंकृतिरलंकारः । करणव्युत्पत्त्या पुनरलंकारशब्दोऽयमुपमादिषु वर्तते ।

एवाचष्टे, तथाप्यस्मिन्सूत्रे मुख्यार्थख्यानुपयोगलक्षणं बाधं पश्यन् शब्दार्थयुगलमात्रे तदुपचर्यत इत्याह---भक्त्येति । 'भक्त्या उपचारेण । गुणालंकारसंस्कृतत्वस्य पृथक्करणं मात्रचोऽर्थः । ननु मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥' इत्युक्तरीत्या मुख्यार्थबाधादौ सत्येवोपचारो वक्तव्यः । तथा च 'गुरुरभिवाद्यो गुरुत्वात्' इत्यत्र यथा गुरुशब्दपरिगृहीतस्यैव गुरुत्वस्य तदभिवादनहेतुत्वं दृष्टम् , तथैव अत्रापि अलंकारस्य काव्यग्रहणहेतुत्वमुपपद्यत इति कथं मुख्यार्थबाधः । चारुताशालिशब्दार्थयोः, शब्दार्थमात्रस्य च वस्तुत एकत्वाद्भेदनिबन्धनो दुर्घटः संबन्धः । 'काव्यं प्राह्यमलंकारात्' इति भेदनिर्देशेनैव गुणालंकारवैशिष्टयं तद्वयुत्पत्तिरूपं प्रयोजनं च संभवतीति कथमुपचारः? अत्रोच्यते---- यथा गुरुत्वादभिवाद्यः' इत्युक्ते गम्यत एव गुरुरिति, तथापि गुरुरित्युच्यमानमतिरिच्यते; एवमिहापि 'अलंकाराद्ग्राह्यम्' इत्युक्ते काव्यमिति गम्यत एव, तथापि काव्यमित्युच्यमानमतिरिच्यत इति पुनरुक्तप्रायत्वादनुपयुक्तमिति मुख्यार्थभङ्गः । न च अनुपयुक्तत्वेऽप्यनुपपत्तेरभावात्कथं मुख्यार्थबाध इति चोदनीयम् । यतो योग्यताविरहवत् आकाक्षाविरहोऽपि मुख्यार्थभङ्गहेतुः, अन्वयविघटनाविशेषात् । ततश्चानुषयुक्तावाकाङ्क्षावैकल्यम् , अनुपपत्तौ तु योग्यतावैकल्यमित्यवगन्तव्यम् । चारुताशालिशब्दार्थयोः शब्दार्थमात्रस्य च गुणभेदाद्भेदे सति सादृश्यलक्षणः संबन्धः । गुरुपदोपलक्षिते पुंसि हितानुशासनकौशलादिप्रतिपत्तियत् , शब्दार्थयोर्गुणालंकारवैशिष्टयप्रतिपत्तिः प्रयोजनं च संभवतीत्युपपन्न एवोपचार इत्यलमतिविस्तरेण ॥

 अलंकारशब्दोऽयं . किं भावसाधनः, उत करणसाधन इति संदेहास्पृच्छति - कोऽसाविति । तत्रोत्तरं वक्तुमुत्तरसूत्रमवतारयति-अत आहे-


1. 'भज्यते सेव्यते मुख्यार्थोऽनयेति भक्तिः उपचारः लक्षणेत्यर्थः ।'

2. साधनं प्रत्ययः। भावसाधन: भावार्थकप्रत्ययान्तः।