पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

ति । वृत्तिकारदशातः सूत्रकारदशान्यैवेति कर्तृभेदमाश्रित्योक्तम् 'आह' इति । अत्र भावव्युत्पत्तेर्विवक्षितत्वादलंकारशब्दो भावार्थमाचष्ट इत्याह--अलंकृतिरलंकार इति । अलंकारशब्दस्य करणव्युत्पत्तिपक्षे तु न गुणानां काव्यग्रहणहेतुत्वमिति, 'युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणम्' इत्यादि वक्ष्यमाणं नोपपद्यत इत्यर्थासंगतिः, 'न क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिरिष्यते' इति करणे ल्युट एव प्राप्तेः शब्दासंगतिश्चेत्याशयः । ननु अलंकारशब्दस्य कटकमुकुटादाविव यमकोपमादिष्वविगीतशिष्टप्रयोगदर्शनात् । 'अध्यायन्याय' इत्यादिसूत्रे चकारादनुक्तसमुच्चयार्थाद्वा · कृत्यल्युटो बहुलम्' इति बहुलग्रहणाद्वा करणसाधनोऽप्यलंकारशब्दः संगच्छत इति चेन्मतम् , तत्तु नानिष्टमित्यभ्युपगम्यानुवदति-करणव्युत्पत्या पुनरिति । कथंचित्कल्पितायामपि करणव्युत्पतौ न गुणानां काव्यग्रहणहेतुत्वमिति स दोषस्तदवस्थ इत्याशयः । ननु करणसाधनोऽयमलंकारशब्दो यमकोपमादिषु वर्तमानो गुणानपि गृह्णाति, सौन्दर्यहेतुत्वा- विशेषादुभयेषामिति- तदेतदविचारितरमणीयम् । न हि व्युत्पत्तिरस्तीति शब्दः सर्वत्र प्रयोक्तुं शक्यते, किंतु शिष्टप्रयोगे दृष्टे व्युत्पत्तिरन्विष्यते, अन्यथा पङ्कजादयः शब्दाः पद्मादिष्विव कुमुदादिषु प्रयुज्येरन् , पङ्कजननाविशेषादिति स्यादतिप्रसङ्गः । तस्मात्पद्मादिषु पङ्कजादिशब्दवत् , अलंकारशब्दः कटकमुकुटादिष्विव यमकोपमादिषु योगरूढ इत्यवगन्तव्यम् । एवं च सति यमकोपमादेरलंकारस्य काव्यग्रहणहेतुत्वाभ्युपगमे, सालंकारमेव काव्यं ग्राह्यम् , न तु निरलंकारमित्यापद्येत । न चैवं वक्तुं युक्तम् , अलंकारविरहेऽपि शुद्धगुणमेव काव्यमास्वाद्यमिति वक्ष्यमाणत्वात् । न केवलमियमस्य ग्रन्थकृतः प्रक्रिया, अन्यैरप्यालंकारिकैरनलंकारस्य शब्दार्थयुगलस्य सगुणस्य काव्यत्वे लक्षणोदाहरणयोर्दर्शितत्वात् । तथा चोक्तं काव्यप्रकाशे, 'तददोषौ शब्दार्थो सगुणावनलंकृती पुनः क्वापि ' इति । अत्र व्याचष्ट भट्टगोपालः, “निर्दोषौ सगुणौ सालंकारौ शब्दार्थों काव्यमिति घण्टापथः । किंतु 'सर्वं वाक्यं सावधारणम्' इति युक्तया यथा दोषशून्यावेव गुणवन्तावेव शब्दार्थों काव्यमित्यवधारणम् , तथा सालंकारावेवेति न पार्यते नियन्तुम् । वयं हि काव्यशोभासंभावनया स्वैरमलंकारान् सहामहे, अलंकारनैयत्यं तु न सहामहे । उक्तं हि, 'दोषहानं गुणादानं

1. अध्यायन्यायोद्यावसंहाराश्च । ३-३-१२२.