पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ १.
काव्यालंकारसूत्रवृत्तिः

शास्त्रमप्युपयुञ्जते। प्रथमालीढमधवः पिबन्ति कटु भेषजम् ॥' इति । किंच शास्त्रकाव्ययोरियान्विशेषः, यत्प्रभुसंमिततया दुर्लभोऽनुप्रवेशः शास्त्रे, कान्तासंमिततया तु सुलभोऽनुप्रवेशः काव्य इति । यदाहुः, 'कटुकौषधवच्छास्त्रमविद्याव्याधिनाशनम् । आह्नाद्यमृतवत्काव्यमविवेकगदापहम् ॥' इति । साहित्यचूडामणावप्युक्तम् , ' तदिदं पुण्ड्रेक्षुभक्षणाद्वेतनवित्तलाभः, यत्काव्यश्रवणाद्वयुत्पत्तिसिद्धिः' इति । तस्मादृष्टादृष्टानेकोपकारकारितया काव्यमुपादातव्यम् , ततश्च सफलोऽयमलंकारसूत्रवृत्तिविधानयत्न इति सिद्धम् । अथ काव्यशब्दस्यानेकार्थत्वेन विप्रतिपत्तौ स्वसिद्धान्तसिद्धं मुख्यार्थं तावत्प्रख्यापयति-काव्यशब्दोऽयमिति । लिलक्षयिषितगुणालंकारसंस्कृतशब्दार्थयुगलवाची नपुंसकलिङ्गः काव्यशब्द इत्यर्थः । गुणालंकारसंस्कृतयोरिति । गुणैः ओजःप्रमुखैः, अलंकारैः यमकोपमादिभिश्च संस्कृतयोः अलंकृतयोरित्यर्थः । अत्र शब्दार्थों द्वौ सहितावेव काव्यमिति काव्यपदार्थकथनात् , कमनीयताशाली शब्द एव काव्यम् , अथवा अर्थ एवेति पृथक्पक्षद्वयं प्रत्यक्षेपि; यतो द्वयोः संभूयाह्लादनिबन्धनत्वमिति । तदुक्तं वक्रोक्तिजीविते, 'न शब्दस्य रमणीयताविशिष्टस्य केवलस्य काव्यत्वम् , नाप्यर्थस्य' इति । यद्यपि काव्यपदं गुणालंकारसंस्कृतशब्दार्थयुगलं स्वभावत


 1. अत्रेदमवधेयम् । काव्यमुच्चैः पठ्यते, काव्यादर्थोऽवगम्यते, काव्य श्रुतमर्थो न ज्ञात इत्यादिविश्वजनीनव्यवहारतः शब्दविशेषस्यैव काव्यपदार्थत्वम् । तथा च 'रमणीयार्थप्रतिपादकः शब्दः काव्यम्' इति तल्लक्षणं युक्तमिति पण्डितराजः । 'वाक्य रसात्मक काव्यम्' इति लक्षयन्दर्पणकृदप्येनमेव पक्ष कटाक्षयति । प्राचीनपक्षपातिनस्तु, अर्थस्यापि शब्दद्वारा प्रतीतिविषयत्वान्न पूर्वोक्तव्यवहारानुपपत्तिः । इत्थमेव हि आत्मश्रवणवाक्यं समर्थितं सर्वैः । इदं च काव्यत्व न व्यासज्यवृत्ति, एको न द्वाविति व्यवहारस्येव श्लोकवाक्य न काव्यमिति व्यवहारस्याप्यापत्तेः । अर्थाज्ञानेऽपि शब्दावलीमात्रे काव्यत्वानुभवानुपपत्तेश्च । व्यासज्यवृत्तिधर्मप्रकारकनिश्चयस्य यावदाश्रयविषयकत्वनियमात् । नापि प्रत्येकपर्याप्तम् , एकस्मिन्पद्ये काव्यद्वयव्यवहारापत्तेः । शब्दानुपनिबद्धार्थतदनिबन्धकशब्दयोरतिव्याप्तेश्च । परं तु परस्परविशिष्टयोः शब्दार्थयोरेव काव्यत्वम् । तत्र च क्वचिच्छन्दविशिष्टोऽर्थः, क्वचित्वर्थविशिष्टः शब्दः काव्यमिति बोध्यम् । न त्वेकश्लोक एव द्विधा काव्यत्वम् , एकध। काव्यत्वेनैव व्यवहारोपपत्तेः। यत्रार्थी व्यञ्जना, तदभावेऽप्यर्थालंकारमात्रं वा; तत्रार्थो विशेष्य.। यत्र तु शाब्दी व्यञ्जना, तदभावेऽपि शब्दालंकारमात्र वा, तत्र शब्दो विशेष्य इत्येवं विनिगमनावधेया । उभयालकारसत्त्वे तु तत्तच्चमत्कारतारतम्य विनिगमकमवसेयमिति प्राहुः।