न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः ॥ ७ ॥
बहुव्रीहिप्रतिपत्तिं करोति यः कर्मधारयः, स न प्रयोक्तव्यः ।
यथा-- अध्यासितश्चासौ तरुश्चाध्यसिततरुरिति ।
तेन विपर्ययो व्याख्यातः ॥ ८॥
बहुव्रीहिरपि कर्मधारयप्रतिपत्तिकरो न प्रयोक्तव्यः ।
यथा-वीराः पुरुषा यस्य स वीरपुरुषः । कलो रवो यस्य स कलरवः इति ।
संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ ॥ ९॥
संभाव्यस्य निषेधस्य निवर्तने द्वौ प्रतिषेधौ प्रयोक्तव्यौ ।
यथा----
'समरमूर्धनि येन तरस्विना न न जितो विजयी त्रिदशेश्वरः ।
स खलु तापसवाणपरंपराकबलितक्षतजः क्षितिमाश्रितः ॥'
विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ ॥ १० ॥
विशेष्यस्य प्रतिपत्तौ जातायां विशेषणमात्रस्यैव प्रयोगः ।
न कर्मधारय इति। वृत्तिः स्पष्टार्था । तादृशमुदाहरणं दर्शयति- अध्यासित इति । निष्ठापूर्वपदत्वेन बहुव्रीहिप्रतिपत्तेरेव पुरःस्फूर्तिकत्वादिति भावः ।
तेनेति । समासान्तरप्रतिपत्तिकृतः समासस्य प्रयोगो न कार्य इति न्यायो यः फलितः पूर्वसूत्रे, तेनेत्यर्थः । विपर्ययशब्दार्थं विवृणोति - बहुव्रीहिरपीति । वीराः पुरुषा यस्येति । राजा चासौ पुरुष इति, राजा पुरुषो यस्येति वा राजपुरुष इति कर्मधारयो बहुव्रीहिर्वा ईदृशो न कर्तव्य इति तात्पर्यम् । संभाव्यस्येति । संप्रतिपत्तियोग्यस्य, प्राप्तिपूर्वकत्वात् प्रतिषेधस्येति भावः । समरेति । न जित इति न, किंतु जित एवेत्यर्थः ।