पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५२
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

 यथा-'निधानगर्भामिव सागराम्बराम् ।'

 अत्र हि पृथिव्या विशेषणमात्रमेव प्रयुक्तम् । '

 एतेन-

 'क्रुद्धस्य तस्याथ पुरामरातेर्ललाटपट्टादुदगादुदर्चिः ।'

 'गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ।'

 इत्यादयः प्रयोगा व्याख्याताः।

सर्वनाम्नानुसंधिर्वृत्तिच्छन्नस्य ॥ ११ ॥

 सर्वनाम्ना अनुसंधिः अनुसंधानं प्रत्यवमर्शः कार्यः, वृत्तिच्छन्नस्य वृत्तौ समासे च्छन्नस्य गुणीभूतस्य ।

 यथा- 'तवापि नीलोत्पलपत्रचक्षुषो मुखस्य तद्रेणुसमानगन्धिनः ।' इति ।

संबन्धसंबन्धेऽपि षष्ठी क्वचित् ॥ १२ ॥

 संबन्धेन संबन्धः संबन्धसंबन्धः तस्मिन् षष्ठी प्रयोज्या क्वचित्, न सर्वत्रेति ।


 विशेषणेति । यत्रानन्यसाधारणविशेषणमहिम्ना विशेष्यस्य प्रयोगमन्तरेण प्रतिपत्तिर्भवति. तत्र विशेषणमात्रप्रयोगः क्रियते । तदुदाहृत्य दर्शयति---निधानेति । अत्र सागराम्बरत्वं भुव एव, ऊर्ध्वार्चिर्योगश्चाग्नेरेव, तडित्संबन्धश्च मेघस्यैवेत्येषामनन्यसाधारणत्वम् । यत्र तु विशेषणमहिम्ना प्रतिपन्नं विशेष्यं साधारणविशेषणविशिष्टमभिधित्सितम् , तत्र विशेष्यस्यापि गतार्थस्य प्रयोगे न दोष इत्यपि द्रष्टव्यम् ।

 सर्वनाम्नेति । अत्र भाष्यकारवचनं प्रमाणम्- 'अथ शब्दानुशासनम् । केषाम् ? शब्दानाम् ।' इति । तद्रेण्विति । अत्र तच्छब्दः समासे उपसर्जनीभूतं नीलोत्पलं परामृशति ।