न गद्ये समाप्तप्रायं वृत्तमन्यत्रोद्गतादिभ्यः संवादात् ॥ ४॥
गद्ये समाप्तप्रायं वृत्तं न विधेयम्, शोभाभ्रंशात् । अन्यत्रोद्गतादिभ्यो विषमवृत्तेभ्यः, संवादाद्गद्येनेति ।
न पादादौ खल्वादयः ॥ ५॥
पादादौ खल्वादयः शब्दा न प्रयोज्याः। आदिशब्दः प्रकारार्थः। येषामादौ प्रयोगो न श्लिष्यति ते गृह्यन्ते । न पुनर्बतहन्तप्रभृतयः।
नार्धे किंचित्समाप्तं वाक्यम् ॥ ६ ॥
वृत्तस्यार्धे किंचित्समाप्तं वाक्यं न प्रयोक्तव्यम् ।
यथा-
'जयन्ति ताण्डवे शंभोर्भङ्गुराङ्गुलिकोटयः।
कराः कृष्णस्य च भुजाश्चक्रांशुकपिशत्विषः ॥'
{{gap}}न गद्य इति । गद्ये वृत्तगन्धिनि समाप्तप्रायं परिपूर्णकल्पं वृत्तं न विधेयम् । तत्र हेतुमाह- शोभेति । गद्यपरिपाटीविसंवादेन शोभाभ्रंशो जायत इत्यर्थः । अन्यत्रेति । उद्गतादिषु विषमवृत्तेषु गद्यसंवादिषु किंचिद्वृत्तं समाप्तप्रायमपि गद्ये प्रयोक्तव्यम् । तत्र हेतुः- संवादादिति । विसंवादाभावादित्यर्थः ।
न पादादाविति । पादादौ खल्वादिप्रयोगो न श्लिष्यति, श्रुतिविरसत्वादिति भावः । यथा---'खलूक्त्वा खलु वाचिकम् ' 'इव सीतागृहच्छद्मच्छन्नो लङ्कापतिः पुरा ।' 'किल सृजति कामिनीनां किलकिञ्चितमेव कामिजनमोहम् ।' इत्यादि।
नार्ध इति । किंचित्समाप्तम् एकपदावशेषं वाक्यम् । एकपदार्थावशेषवाक्यार्थप्रतिपादकमर्धमित्यर्थः । तादृशमर्धमुदाहरति- जयन्तीति ।.