नित्या संहिता पादेषु एकपदवत् एकस्मिन्निव पदे । तत्र हि नित्या संहितेत्याम्नायः। यथाहुः- 'संहितैकपदे नित्या नित्या धातू- पसर्गयोः।' इति । अर्धान्तवर्जम् अर्धान्तं वर्जयित्वा ।
न पादान्तलघोर्गुरुत्वं च सर्वत्र ॥ ३ ॥
पादान्तलघोर्गुरुत्वं प्रयोक्तव्यम्। न सर्वत्र न सर्वस्मिन् वृत्त इति ।
यथा--
'यासां बलिर्भवति मद्गृहदेहलीनां
हंसैश्च सारसगणैश्च विलुप्तपूर्वः।
तास्वेव पूर्वबलिरूढयवाङ्कुरासु
बीजाञ्जलिः पतति कीटमुखावलीढः ॥'
एवंप्रायेष्वेव वृत्तेष्विति ।
न पुनः–'वरूथिनीनां रजसि प्रसर्पति समस्तमासीद्विनिमीलितं जगत् ।' इत्यादिषु ।
चकारोऽर्धान्तवर्जमित्यस्यानुकर्षणार्थः ।
नित्येति । एकस्मिन् पदे संहिता प्रकृष्टसंनिकर्षो यथा नित्यः, तथा पादेष्वपि संहिता नित्या भवति ।आम्नायः प्रमाणवचनम् । तं दर्शयति-- संहितेति । अविशेषेण सर्वत्र प्राप्तौ क्वचित्संहितां पर्युदस्यति- अर्धान्तवर्जमिति।
यदपि वा पादान्ते' इति पादान्तवर्णस्य लघोर्गुरुत्वं विकल्पेन विहितम्, तदपि न सर्वत्र भवतीति प्रतिपादयितुमाह--न पादान्तेति । प्रथमं तावल्लघोर्गुरुत्वं दर्शयति--- यथेति । एवंप्रायेष्विति । 'श्रीतिप्पभूपालक मध्यलोकदेवेन्द्र वज्राङ्गदचन्द्रिकाभिः । त्वद्बाहुराभाति हसन्निवायं प्रोढौ प्रदाने मणिपारिजातौ ।' इत्यादिषु इन्द्रवज्रादिषु उपजातिभेदेष्वपि द्रष्टव्यम् । प्रतिषेधविषयं प्रदर्शयति-न पुनरिति । तेन वा पादान्ते' इति व्यवस्थितविभाषा वेदितव्या।