लंकारणां मिश्रत्वं संसृष्टिरित्याह--
अलंकारस्यालंकारयोनित्वं संसृष्टिः ॥ ३० ॥
अलंकारस्य अलंकारयोनित्वं यत्, असौ संसृष्टिरिति । संसृष्टिः संसर्गः संबन्ध इति ।
तद्भेदावुपमारूपकोत्प्रेक्षावयवौ ॥ ३१ ॥
तस्याः संसृष्टेर्भेदौ-उपमारूपकं चोत्प्रेक्षावयवश्चेति ।
उपमाजन्यं रूपकमुपमारूपकम् ॥ ३२ ॥
यथा-
'निरवधि च निराश्रयं च यस्य
स्थितमनिवर्तितकौतुकप्रपञ्चम् ।
प्रथम इह भवान्स कूर्ममूर्ति-
र्जयति चतुर्दशलोकवल्लिकंदः ॥
एवं 'रजनिपुरंध्रिलोध्रतिलकः शशी' इत्येवमादयस्तद्भेदा द्रष्टव्याः।
हेतौ । विशिष्टानामलंकाराणाम् अलंकारविशेषाणाम् । संसृष्टेर्लक्षणमाह-अलंकारस्येति । कार्यकारणभावापन्नयोरलंकारयोः संबन्धः संसृष्टिरित्यर्थः ।
संसृष्टिविभागं दर्शयितुं सूत्रमनुभाषते तद्भेदाविति । अलंकारयोनित्वमित्यत्र यथाक्रमं बहुव्रीहितत्पुरुषाश्रयणेन द्वौ भेदौ भवतः- उपमारूपकमुत्प्रेक्षावयवश्चेति ॥
तत्राद्यं लक्षयितुं सूत्रमुपक्षिपति- उपमाजन्यमिति । सूत्रमिदं निगदव्याख्यानमित्यभिसंधाय उदाहरणं दर्शयति- यथेति । नन्वत्र कूर्ममूर्तेः कंदत्वारोपाल्लोकानां वल्लित्वारोपणं वक्तुं युक्तम् । तथा च रूपकजन्यमिह रूपकमिति वक्तव्यम् । यन्मतान्तरे परंपरितरूपकमित्युच्यते । तत्कथमिदमुपमाजन्यं रूपकमिति चेत् , सत्यम् ; लोको वल्लिरिव लोकवल्लिः । व्याघ्रादेराकृतिगणत्वादुपमितसमासः । लोकवल्ल्या. कंद इति कूर्ममूर्तौ कंदत्वारोपणमिह ग्रन्थकृतो विवक्षितमिति न दोषः । इत्थमेव रजनिपुरंध्रीत्यादावपि द्रष्टव्यम् ।