यथा-
'अस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्रियन्तां बलानि ।'
अत्रार्थयोन्यूनत्वविशिष्टत्वे न स्त इति नेयं तुल्ययोगितेति ।
समाहितमेकमवशिष्यते ; तल्लक्षणार्थमाह--
यत्सादृश्यं तत्संपत्तिः समाहितम् ॥ २९ ॥
यस्य वस्तुनः सादृश्यं गृह्यते, तस्य वस्तुनः संपत्तिः समाहितम् ।
यथा--
'तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः
शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा ।
चिन्तामौनमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते
चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥'
अत्र पुरूरवसो लतायामुर्वश्याः सादृश्यं गृह्णतः सैव लतोर्वशी संपन्नेति ।
एते चालंकाराः शुद्धा मिश्राश्च प्रयोक्तव्या इति विशिष्टानाम-
स्पष्टमुदाहरणम् । उभयोरलंकारयोर्भेदं दर्शयति-- अत्रेति ।
समाहितं समीरयितुमाह-समाहितमिति । शुद्धेष्वलंकारभेदेषु समाहितमेकं लक्षयितुमवशिष्यत इत्यर्थः । यस्येति । तस्य संपत्तिस्तदाकारतापरिणतिः, ताद्रूप्यसंपत्तिरिति यावत् । अत्रोदाहरणं विक्रमोर्वशीये दर्शयितुमाह- तन्वीति। लतायामुर्वशीसादृश्यं पश्यतः पुरूवरस इयमुक्तिः । अत्रेति । लतामवलोक्य तत्राश्रुधौताधरत्वाभरणशून्यत्वचिन्तामौनाश्रितत्वाध्यवसायेन सा तादृश्युर्वशीवेत्युत्प्रेक्षमाणस्य पुरूरवसः सैव लतोर्वशी संपन्नेति लताया उर्वशीत्वसंपत्तेः संभवात् समाहितम् । समनन्तरक्षणभावित्वेऽपि तत्संपत्तेस्तस्य तादात्विकत्वाभिमानं सूचयितुं भूतप्रत्ययः॥
शुद्धालंकारनिरूपणोपसंहारव्याजेन मिश्रालंकारनिरूपणाय प्रसङ्गं प्रस्फोरयति- एते चेति । शुद्धाः पूर्वं लक्षिताः । मिश्राः संसृष्टिभेदाः । शुद्धा इव मिश्रा अप्यलंकाराः प्रयोगयोग्याः, शोभातिशयहेतुत्वादिति भावः । इतिशब्दो