पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. ३.
१४७
कामधेनुसहिता।

उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः ॥ ३३ ॥

 उत्प्रेक्षाया हेतुरलंकार उत्प्रेक्षावयवः । अवयवशब्दो ह्यारम्भकं लक्षयति ।

 यथा-

 'अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।

 कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥'

 एभिर्निदर्शनैः स्वीयैः परकीयैश्च पुष्कलैः।

 शब्दवैचित्र्यगर्भेयमुपमैव प्रपञ्चिता ॥

 अलंकारैकदेशा ये मताः सौभाग्यभागिनः ।

 तेऽप्यलंकारदेशीया योजनीयाः कवीश्वरैः॥

इति काव्यालंकारसूत्रवृत्तौ आलंकारिके चतुर्थेऽधिकरणे तृतीयोऽध्यायः॥

समाप्तं चेदमालंकारिकं चतुर्थमधिकरणम् ॥

 उत्प्रेक्षावयवं लक्षयितुमाह-- उत्प्रेक्षाहेतुरिति । अवयवशब्द इति । अवयव आरम्भको हेतुरित्यर्थः । अङ्गुलीभिरिति । अत्रोपमारूपकानुप्राणितस्य श्लेषस्य उत्प्रेक्षोपपादकत्वादुत्प्रेक्षावयवत्वम् | अमीषामलंकाराणामुपमाप्रपञ्चरूपत्वमुपपादितमुपसंहरति-- एभिरितिनिदर्शनैः उदाहरणैः । अलंकाराणामप्येकलक्षणलक्षितानां शोभातिशयजनकत्वं कैमुतिकन्यायेन सिद्धमिति सूचयितुं तदेकदेशानामपि शोभातिशयहेतुत्वमस्तीत्याह-- अलंकारेति

  इति कृतरचनायामिन्दुवंशोद्वहेन
   त्रिपुरहरधरित्रीमण्डलाखण्डलेन ।
  ललितवचसि काव्यालंक्रियाकामधेना-
   वधिकरणमयासीत्पूर्तिमेतत्तुरीयम् ॥

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति-

व्याख्यायां काव्यालंकारकामधेनौ आलकारिक नाम

चतुर्थमधिकरणम् ॥