पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. ३.
१३३
कामधेनुसहिता।

  स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
  कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥'

 उत्प्रेक्षैवातिशयोक्तिरिति केचित् ; तन्निरासार्थमाह---

संभाव्यधर्मतदुत्कर्षकल्पनातिशयोक्तिः॥ १० ॥

 संभाव्यस्य धर्मस्य तदुत्कर्षस्य च कल्पना अतिशयोक्तिः ।

 यथा-

  'उभौ यदि व्योम्नि पृथक्पतेतामाकाशगङ्गापयसः प्रवाहौ।
  तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥

 यथा वा-

  'मलयजरसविलिप्ततनवो नवहारलताविभूषिताः
   सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः ।
  शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः
   प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः॥'


दिन्दुपदेनेन्दुकलावगम्यते । इन्दुर्मन्दाकिनीसलिलसेकेन कपालादुद्भिन्नोऽङ्कुर इवेत्युत्प्रेक्ष्यत इत्युत्प्रेक्षालंकारः ।

 संभावनारूपत्वाविशेषादुत्प्रेक्षातिशयोक्त्योरभेदं केचिन्मन्यन्ते; तन्मतं निरसितुं लक्षणभेदं दर्शयतीत्याह-- उत्प्रेक्षैवेति । संभाव्यस्येति । संभाव्यस्य उत्प्रेक्ष्यस्य धर्मस्य यद्यर्थानुबन्धेन कल्पना, तदुत्कर्षस्य तस्य संभाव्यधर्मस्य य उत्कर्षस्तस्य कल्पना चातिशयोक्तिः। उदाहरति--- उभाविति । यदि तथाविधं व्योम संभाव्येत, तदेव आमुक्तमुक्ताफलस्य वक्षस उपमानं भवेत् न पुनरन्यत् किंचिदित्यतिशयस्योक्तेरतिशयोक्तिः । एवं संभाव्यधर्मकल्पनामुदाहृत्य तदुत्कर्षकल्पनामुदाहरति-- मलयजेति । मलयजरसनवहारलतादीनां तावान् धावल्यस्योत्कर्षोऽतिशयः कल्प्यते, यावता चन्द्रिकायां तद्विवेचनाक्षमत्वं चक्षुषोरिति ।