पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३४
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

 यथा भ्रान्तिज्ञानस्वरूपा उत्प्रेक्षा, तथा संशयज्ञानस्वरूपः संदेहोऽपीति दर्शयितुमाह---

उपमानोपमेयसंशयः संदेहः ॥ ११ ॥

 उपमानोपमेययोरतिशयार्थं यः क्रियते संशयः, स संदेहः ।

 यथा---

  'इदं कर्णोत्पलं चक्षुरिदं वेति विलासिनि ।
  न निश्चिनोति हृदयं किंतु दोलयते मनः ॥'

 संदेहवद्विरोधोऽपि प्राप्तावसर इत्याह---

विरुद्धाभासत्वं विरोधः ॥ १२ ॥

 अर्थस्य विरुद्धस्येवाभासत्वं विरुद्धाभासत्वं विरोधः ।

 यथा-

  'पीतं पानमिदं त्वयाद्य दयिते मत्तं ममेदं मनः
   पत्राली तव कुङ्कुमेन रचिता रक्ता वयं मानिनि ।

 यथा लौकिकभ्रमसजातीयामुत्प्रेक्षामतिशयार्थकल्पनात्ववैधर्म्येण लौकिकभ्रान्तितः पृथक्कृत्य प्रदर्शितवान् , तथा संशयमपि लौकिकसजातीयं तथाविधेन वैधर्म्येण ततः पृथक्कृत्य दर्शयितुमाह- यथेति । संदेहस्य कोटिद्वयावलम्बित्वादिहापि तदाह-- उपमानोपमेययोरिति । अतिशयार्थमिति । उपमेये अतिशयमाधातुं संदेहः संपाद्यते, न तु विशेषादर्शनादित्यर्थः । व्यक्तमुदाहरणम् ।

 कल्पनारूपत्वाविशेषादतिशयोक्तेरनन्तरं यथा संदेहालङ्कारः प्राप्तावसरः, तथा विरुद्धकोटिद्वयावलम्बिनः संदेहस्यानन्तरं विरोधालंकारः प्राप्तावसर इति तल्लक्षणं दर्शयतीत्याह --- संदेहवदिति । व्याचष्टे- अर्थस्येति । विरुद्धवदवभासत इति विरुद्धाभासस्तस्य भावस्तत्त्वम् । प्रकारान्तरेण परिहारे सत्येव विरुद्धस्यार्थस्यावभासनं विरोधालंकारः । उदाहरति- यथेति । पानशब्दोऽत्र