पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३२
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

 अत्र च्छेदः सामीप्याद्द्रव्यं लक्षयति, तस्यैव गौरत्वोपपत्तेः ।

 रूपकवक्रोक्तिभ्यामुत्प्रेक्षाया भेदं दर्शयितुमाह--

अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा ॥ ९ ॥

 अतद्रूपस्य अतत्स्वभावस्य, अन्यथा तत्स्वभावतया, अध्यवसानम् अध्यवसायः; न पुनरध्यारोपो लक्षणा वा। अतिशयार्थमिति भ्रान्तिज्ञाननिवृत्त्यर्थम् । सादृश्यादियमुत्प्रेक्षेति । एनां चेवादिशब्दा द्योतयन्ति ।

 यथा---

  'स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः

   स्मरारेर्यो मूर्ध्नि ज्वलनकपिशे भाति निहितः ।


 स्वरूपान्यथाभावकल्पनास्वभावत्वाविशेषेण रूपकवक्रोक्तिभ्यामुत्प्रेक्षाया अभेदशङ्कायां लक्षणतो भेदं दर्शयितुमनन्तरसूत्रमवतारयति--रूपकेति । सूत्रार्थमाविष्करोति-- अतद्रूपस्येति । अतद्रूपं प्राकरणिकं वस्तु तदात्मना अप्राकरणिकवस्तुरूपत्वेन अतिशयमाधातुमध्यवसीयते प्रतिभामात्रेण कविना संभाव्यते, न पुनरिन्द्रियदोषेण, तथाविधं संभावनापरपर्यायमध्यवसानमुत्प्रेक्षेति लक्षणार्थः । न पुनरिति । अतत्स्वभावस्य वस्तुनस्तद्गुणयोगात्तद्भावकल्पनमध्यारोपः; यत्र रूपकादिस्वरूपलाभः । यत्तु सादृश्ये सत्येकेन वस्तुना वस्त्वन्तरस्य प्रतिपादनमध्यवसायरूपं सा सादृश्यमूला लक्षणा; यत्र वक्रोक्तिव्यपदेशः । यत्पुनरतद्रूपे वस्तुन्यतिशयमाधातुं तद्रूपतयाध्यवसानम् , सोऽयमध्यवसायः संभावनालक्षण उत्प्रेक्षेति विवेकः । अतो न रूपकम् , नापि वक्रोक्तिरिति ततो भेदो दर्शितः । अतिशयार्थमिति । भ्रान्ति विपर्ययज्ञानम् । अन्यथाध्यवसायत्वाविशेषेऽपि बुद्धिपूर्वकत्वादुत्प्रेक्षायास्तद्विलक्षणाया भ्रान्तेर्व्यावृत्तिरित्यतिशयः । उत्प्रेक्षोदाहरणेषु केषुचिदिवशब्दश्रवणात् कस्यचिदुपमाशङ्का जायते; तामाशङ्क्य परिहरति--- सादृश्यादियमुत्प्रेक्षेति । प्रयुक्तोऽपि क्वचिदिवशब्दः सादृश्यनिबन्धनत्वसूचनद्वारेणोत्प्रेक्षामपि द्योतयतीत्यर्थः । तदुक्तं दण्डिना, 'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः' इति । स वः पायादिति। अत्र नवबिसलताकोटिकुटिल इति विशेषणसामर्थ्या-