पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. १.
१०३
कामधेनुसहिता।

 एवं समस्तपादादिमध्ययमकानि व्याख्यातव्यानि । अन्ये च संकरजातिभेदाः सुधियोत्प्रेक्ष्याः ।

 अक्षरयमकं त्वेकाक्षरमनेकाक्षरं च ।

 एकाक्षरं यथा-

  'नानाकारेण कान्ताभ्रूराराधितमनोभुवा ।
  विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ॥'

 एवं स्थानान्तरयोगेऽपि द्रष्टव्यः ।

 सजातीयनैरन्तर्यादस्य प्रकर्षो भवति ।

 स चायं हरिप्रबोधे दृश्यते; यथा---


 एवमिति । समस्तपादादियमकं यथा---'सारसालंकृताकारा सारसामोदनिर्भरा । सारसालवृतप्रान्ता सा रसाढ्या सरोजिनी ॥' समस्तपादमध्ययमकं यथा--'स्थिरायते यतेन्द्रियो न हीयते यतेर्भवान् । अमायते यतेऽप्यभूत्सुस्वाय ते यते क्षयम् ॥

 अन्ये चेति । 'सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् । मता फणवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥' इत्यादि ।

 अक्षरयमकम् अध्यक्षयितुं तद्विभागमाह-- अक्षरयमकमिति । तत्राद्यमुदाहरति--- नानेति । नानाकारेण विविक्तेन शुद्धेन आराधितमनोभुवा विलासेन । कान्ताभ्रूः, नृणां हृदयं ततक्ष । 'अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् । धातूपसर्गयोः शास्त्रे धातुरेव हि तादृशः ॥' इति वचनात् विशब्दस्य धात्वंशत्वेनाक्षरावृत्तिरेवेति न पदावृत्तिशङ्कावकाशः ।

 एवमिति । स्थानान्तरयोगे यथा-'सभासु राजन्नसुराहतैर्मुखैर्महीसुराणां वसुराजितैः स्तुताः । न भासुरा यान्ति सुरान्न ते गुणाः प्रजासु रागात्मसु राशितां गताः' ॥ इति, · अकलङ्कशशाङ्काङ्कामिन्दुमौलेर्मतिर्मम' इत्यादि ।

 इत्थमक्षरयमकमुदाहृत्य तदेव नैरन्तर्येणावृत्तमुदाहर्तुमुपश्लोकयति-- सजातीयेति।