पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

  'सपदि कृतपदस्त्वदीक्षितेन
   स्मितशुचिना स्मरतत्त्वदीक्षितेन ।
  भवति बत जनः सचित्तदाहो
   न खलु मृषा कुत एव चित्तदाहो ।'

 एकान्तरपादान्तयमकं यथा-

  'उद्वेजयति भूतानि यस्य राज्ञः कुशासनम् ।
  सिंहासनवियुक्तस्य तस्य क्षिप्रं कुशासनम् ॥'

 एवमेकान्तरपादादिमध्ययमकान्यूह्यानि ।

 समस्तपादान्तयमकं यथा

  'नतोन्नतभ्रूगतिबद्धलास्यां
   विलोक्य तन्वीं शशिपेशलास्याम् ।
  मनः किमुत्ताम्यसि चञ्चलास्यां
   कृती स्मराज्ञा यदि पुष्कला स्याम् ॥'


 सपदीति । स्मितशुचिना कामतत्त्वदीक्षितेन त्वदीक्षितेन सपदि कृतपदो जनस्तदैव सचित्तदाहो भवति । न कुतश्चित् कुतोऽपि न मृषा खलु । अहो ।

 एकान्तरितपादान्तयमकमाह-- एकान्तरेति । यस्य राज्ञः कुशासनं कुत्सितं शासनं भूतानि प्राणिन उद्वेजयति । सिंहासनवियुक्तस्य तस्य कुशासनं कुशमयमासनं भवति ।

 एवमिति । एकान्तरितपादादियमकं यथा--- 'करोऽतिताम्रो रामाणां तन्त्रीताडनविभ्रमम् । करोति सेर्ष्ये कान्ते च श्रवणोत्पलताडनम् ॥ एकान्तरितपादमध्ययमकं यथा--'यान्ति यस्यान्तिके सर्वेऽप्यन्तकान्तमुपाधयः । तं शान्तचित्तवृत्तान्तं कालीकान्तमुपास्महे ॥' इति ।

 चतुर्ष्वपि पादेषु अन्तयमकमुदाहरति-- नतोन्नतेति । हे चञ्चल मनः, नते उन्नते च भ्रुवौ तयोर्गतिभिर्वलनभङ्गीभिर्बद्धं लास्यं शृङ्गारनटनं यया ताम् । शशीव पेशलं मनोज्ञमास्यं यस्यास्तां तन्वीं विलोक्य किमुत्ताम्यसि । अस्यां तन्व्यां स्मराज्ञा यदि पुष्कला भवेत् , तर्हि कृती स्यामिति संबन्धः ।