'विविधधववना नागगर्द्धर्द्धनाना-
विविततगगनानाममज्जज्जनाना।
रुरुशशललना नाववन्धुं धुनाना।
मम हि हिततनानाननस्वस्वनाना ॥'
अनया च वर्णयमकमालया पदयमकमाला व्याख्याता ।
भङ्गादुत्कर्षः ॥३॥
उत्कृष्टं खलु यमकं भङ्गाद्भवति ।
शृङ्खला परिवर्तकश्चूर्णमिति भङ्गमार्गः ॥ ४ ॥
विविधेति । अत्र पारावारपरिसरभुवमभिलक्ष्य हलधरं हरिराह । विविधानि बहुविधानि धवानामर्जुनानां वनानि यस्यां सा विविधधववना 'धवो वृक्षे नरे पत्यावर्जुने च द्रुमान्तरे' इति वैजयन्ती। नागाः कुञ्जराः सर्पा वा तान् गृध्यन्ति अभिलषन्तीति नागगर्द्धाः; तथाविधा ऋद्धाः समृद्धा ये नानाविधा वयः पक्षिणः, तैर्विततं व्याप्तं गगनं यस्याः सा नागगर्द्धर्द्धनानाविविततगगना । न विद्यते नामो नमनं यस्मिन् कर्मणि तत्तथा मज्जन्तो जना यस्यां सा अनाममज्जज्जना । अनिति प्राणितीति अना, स्फुरन्तीति यावत् । अथवा न विद्यन्ते नरो यस्यां सा अना । समासान्तविधेरनित्यत्वात् कबभावः । रुरूणां शशानां च ललनं विलसनं यस्यां सा रुरुशशललना । नौ आवयोः, अबन्धुं शत्रुं धुनाना । हि यस्मात् कारणात् । मम हितं तनोतीति हिततना । न विद्यते आननं यस्यासौ अनाननः, स्व आत्मीयः स्वन एव अनः प्राणनं यस्याः सा अनाननस्वस्वनाना । एवंविधा समुद्रभूमिरिति वाक्यार्थः ।
पदयमकमालेति । 'स्वभुवे स्वभुवे भयोभयोर्भवतां भवताम्भसि ते भसिते' इत्यादि द्रष्टव्यम् ।
अथ यमकगोचरमेव किंचद्वैचित्र्यमासूत्रयितुमाह-- भङ्गादुत्कर्ष इति । व्याचष्टे-- उत्कृष्टमिति । भङ्गो नाम वर्णविच्छेदः ।
भङ्गभेदान् भणितुमनुभाषते---- शृङ्खलेति । वृत्तिः स्पष्टार्था ।