अपारुष्यं सौकुमार्यम् ॥ ११ ॥
परुषेऽर्थे अपारुष्यं सौकुमार्यमिति ।
यथा- मृतं यशःशेषमित्याहुः, एकाकिनं देवताद्वितीयमिति, गच्छेति साधयेति च।
अग्राम्यत्वमुदारता ॥ १२ ॥
ग्राम्यत्वप्रसङ्गे अग्राम्यत्वमुदारता ।
यथा-
'त्वमेवंसौन्दर्या स च रुचिरतायां परिचितः
कलानां सीमानं परमिह युवामेव भजथः ।
अयि द्वंद्वं दिष्ट्या तद्विति सुभगे संवदति वा-
मतः शेषं चेत्स्याज्जितमिह तदानीं गुणितया ॥'
मानातिशायि दशनच्छदमाधुर्यमिति वक्तव्ये, रसवदमृतमित्यादिभङ्ग्यन्तरेण प्रतिपादनादत्र माधुर्यम् । अस्य गुणस्य विपर्ययो ह्येकस्यैवार्थस्य पुनः पुनः कथनमित्येकार्थत्वम् , प्राय एकार्थश्रुतेर्वैरस्यात् कष्टत्वं वा ।
सौकुमार्यं समाख्यातुमाह--- अपारुष्यमिति । परुषे अमङ्गलातङ्कदायिन्यर्थे वर्णनीये यदपारुष्यम् , तत् सौकुमार्यमिति लक्षणार्थः । उदाहरणानि स्पष्टानि । अस्य गुणस्य विपर्ययोऽश्लीलत्वम् ।
उदारतामुदीरयितुमाह---- अग्राम्यत्वमिति । अत्र कन्ये कामयमानं कान्तं कामयस्वेति वक्तव्ये ग्राम्यार्थे, यदौचित्येन प्रतिपादनं सा उदारता । त्वमेवमिति । एवं वर्णनापथोत्तीर्णतयानुभूयमानं सौन्दर्यं यस्याः सा तथोक्ता । स च माधवो रुचिरतायां सौन्दर्यविषये, परिचितः संस्तुतः, प्रसिद्ध इति यावत् । युवां स च त्वं च । युवामेव परमिह लोके कलानां सीमानं भजथः । अयि हे मालति । वां युवयोः द्वंद्वं मिथुनं दिष्ट्या भाग्येन संवदति सदृशं भवतीत्यर्थः । अतः शेषं पाणिग्रहणरूपं मङ्गलं कर्म स्याच्चेत् , तदानीं गुणितया गुणवत्त्वेन जितम् ,