पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२
[अधि. ३.
काव्यालंकारसूत्रवृत्तिः।

 वासनीयो यथा-

  'अवहित्थवलितजघनं विवर्तिताभिमुखकुचतटे स्थित्वा ।
  अवलोकितोऽहमनया दक्षिणकरकलितहारलतम् ॥'

उक्तिवैचित्र्यं माधुर्यम् ॥ १० ॥

 उक्तेर्वैचित्र्यं यत् , तन्माधुर्यमिति ।

 यथा-

  'रसवदमृतं कः संदेहो मधून्यपि नान्यथा
   मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् ।
  सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो
   वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥'


साधारण्येन चर्व्यमाणतैकप्राणः संभोगशृङ्गारो रसः । तदुक्तं दशरूपके, 'विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥' इति । वासनीयमुद्भासयति-वासनीय इति। अवहित्थेति । अवहित्थमाकारगोपनम् । दुर्लभस्त्वत्संभोगः, त्वय्येव लग्नमिदं मदीयं मनः, दुरन्तसंतापशान्तये हारलतिकेयमेका मयि दाक्षिण्यमवलम्बत इत्येवं स्वाभिप्रायप्रकाशनमवधानप्रकर्षेणात्र सहृदयहृदयसंवेद्यम् । अत्र विप्रलम्भशृङ्गारः । विभावादयः स्वयमूह्याः । अस्य गुणस्य विपर्ययो ग्राम्यत्वम् ‘स्वपिति यावत्' इत्यादौ द्रष्टव्यम् ।

 माधुर्यं पर्यालोचयितुमाह-उक्तिवैचित्र्यमिति । वर्ण्यमानस्यार्थस्य प्रकर्षे प्रतिपाद्ये भङ्ग्यन्तरेणोक्तिरुक्तिवैचित्र्यम् । रसवदमृतमिति। 'कस्यचिन्नागरिकस्येयमुक्तिः । अमृतं रसवद्भवत्येव । मधून्यपि नान्यथा, रसवन्त्येव । प्रसन्नरसं चूतस्यापि फलमधिकं मधुरमेव । कः संदेह इति सर्वत्रानुषज्ज्यते । तथापि रसान्तरवित् सकृदपि रसविशेषाभिज्ञो जनो मध्यस्थः सन् वदतु । इह लोके प्रियादशनच्छदादन्यत् यद्वस्तु स्वादु स्यात् , तत् वदतु । रसज्ञोऽपक्षपाती चेत् अन्यत्स्वादु भवतीति न वदेत् , तादृशवस्त्वन्तरासंभवादित्यर्थः । नानाविधोप-