पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४
[अधि. ३.
काव्यालंकारसूत्रवृत्तिः।

 विपर्ययस्तु-

  'स्वपिति यावदयं निकटे जनः
   स्वपिमि तावदहं किमपैति ते ।
  इति निगद्य शनैरनुमेखलं
   मम करं स्वकरेण रुरोध सा ॥'

वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः ॥ १३ ॥

 वस्तूनां भावानां स्वभावस्य स्फुटत्वं यत् , असौ अर्थव्यक्तिः ।

 यथा-

  "पृष्ठेषु शंखशकलच्छविषु च्छदानां
   राजीभिरङ्कितमलक्तकलोहिनीभिः ।
  गोरोचनाहरितबभ्रुबहिःपलाश-
   मामोदते कुमुदमम्भसि पल्वलस्य ॥'


युवयोर्गुणसंपत्तिविश्वातिशायिनी भवेदित्यर्थः । अत्र प्रथमं त्वं स चेति पृथक्तयोक्तेः, ततो युवामिति मिश्रीकरणेन, तदनन्तरं द्वन्द्वमिति, ततः शेषमिति च विवक्षितार्थव्यञ्जनमुखेन फलपर्यवसायित्वमित्यौचित्यशालिना क्रमेण कामन्दक्या मालतीमुद्दिश्योक्तमिति स्पष्टमुदाहरणत्वम् । प्रत्युदाहरणं प्रत्याययितुमाह-विपर्ययस्त्विति। स्वपितीति । अत्र कश्चित् कामी वयस्याय रहस्यं कथयति । अयं निकटे जनः परिसरसंचारी जनो यावत् स्वपिति यावता कालेन नियतं कर्म निर्वर्त्य निद्राति । तावत् तावन्तं कालं स्वपिमि । ते किमपैति तावता कालविलम्बेन तव का हानिर्भवति । इति उक्तप्रकारेण, शनैरुपांशु, निगद्य कथयित्वा, अनुमेखलं मेखलासमीपे, प्रसारितं मम मे करं स्वकरेण रुरोध निरुद्धवती । स्पष्टं ग्राम्यत्वम् ।

 अर्थव्यक्तिं समर्थयितुमाह-वस्त्विति। व्याचष्टे- वस्तूनामिति । अशेषविशेषैर्वर्णने पुर इव प्रतिभासमानत्वमर्थस्य स्फुटत्वम् । उदाहरति-पृष्ठेष्विति । शङ्खशकलच्छविषु पृष्ठेषु चरमभागेषु, अलक्तकलोहिनीभी रेखाभिरङ्कितम् , गोरोचनावद्धरितानि बभ्रूणि कपिशानि बहिःपलाशानि यस्य तत् , कुमुदम् , पल्वलस्य