पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
x

यत इत्यभ्युपगच्छाम' । क्वचित्वचित्सूत्रविलक्षणमपि वाक्यं श्रद्धाजाड्येन सूत्रमित्यङ्गीकुर्मः । तदेतदस्माकं सर्वात्मना भवति भूषणम् , नांशतोऽपि किमपि दूषणम् । एतदेव खलु वयमभिधातुमभिलषामः-- न खल्वस्ति संप्रति समुपलभ्यमानेषु अलंकारदर्शननिबन्धेषु, विहाय वामनीयम् , प्राचीनं किमपि संपूर्ण सूत्रात्मना समुपनिबद्धं निबन्धनमिति । परस्ताच्च वामनमनुकुर्वाणा राजानकरुय्यकप्रभृतयः कतिपये सूत्राणि निर्ममिर इत्यन्यदेतत् ॥

 अलंकारनिबन्धनानां च भिन्नभिन्नानि प्रस्थानानि दृश्यन्ते । ध्वन्या- लोकादिषु हि प्राधान्येन ध्वनिविचार एव कृतः । काव्यप्रकाशादयस्तु नाटका- दिलक्षणनिरूपणादिकमंशतोऽपि न विरचयन्ति । दशरूपकादिकर्तारस्तु प्राधा- न्येन नाटकलक्षणादिकं संक्षेपेण रसांश्च निरूपयन्ति । रसचन्द्रिकादीनां तु रसनिरूपणं परं विषयः । अलंकारसर्वस्वकारादयस्तु अलंकारनिरूपणं परमा- द्रियन्ते । आचार्यदण्डिनापि प्राचीनेन काव्यादर्शे काव्यमार्गविभागार्थालंकार- शब्दालंकारा एव प्रतिपादिताः । साहित्यदर्पणादिकृतः कतिपये परमर्वाचीनाः प्रायेणालंकारदर्शनस्य सर्वा अपि गमनिकाः संक्षेपेण सम्यङ निरूपयामासुः । तन्नैतदाश्चर्यमसंभावितं वा, यदनेनापि वामनेन अलंकारदर्शनस्य कतिपये पर विषयाः प्रतिपादिताः, न पुना रसनिरूपणादिषु रम्यतरेप्वपि विषयेषु स्वात्मना कोऽपि समदर्शि समादर इति ॥

 अत्र हि पञ्च अधिकरणानि, द्वादश अध्यायाश्च सन्ति । प्रायेण हि ब्रह्मसूत्रादिषु अध्यायस्य प्राधान्येन अन्तर्गतानामधिकरणव्यपदेशो दृश्यते । इह तु भिन्नैव विपरीतेयं रीतिरिति न जानीमः किं वाभिमतं वामनस्य ॥

 प्रथमे खल्वधिकरणे आदितः काव्यस्य दृष्टादृष्टार्थत्वम् , पश्चाच्च अधि- कारिणं निरूप्य, आत्मत्वेन स्वाभिमता रीतिः परस्तात्प्रतिपादिता। शब्दार्थ- युगलात्मकस्य हि काव्यस्य आत्मानं प्रति बहूनामभिप्रायभेद उपलक्ष्यते । अर्वाचीनाश्च तदिदं वामनमतं नाभिनन्दन्ति । विशिष्टपदरचनात्मिकायाश्च रीतेः कथं वा आत्मत्वमभ्युगम्यतां तैः । यद्यपीदं मतं - गुणोद्देशसूत्रे व्याख्यात्रा महता संरम्भेण समर्थितम् ; अथापि व्याख्यातृवचनं तदद्याप्यप्रतिष्ठितनैवेति ध्वनिवादिमतमिव न सहृदयानां हृदयेन संवदति वामनमतमित्येतावदेव संप्रति क्तुं वाञ्छामः । ‘सा त्रेधा वैदर्भी गौडीया पाञ्चाली चेति' इति वामनः ।