पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
xi

अस्त्यनेको गिरां मार्गः सूक्ष्मभेदः परस्परम् । तत्र वैदर्भगौडीयो वर्ण्येते प्रस्फुटान्तरौ' इत्याचार्यदण्डी । ‘सा पुनः म्याच्चतुर्विधा । वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा' इति दर्पणकृदादयः । भोजराजस्तु 'वैदर्भी चाथ पाञ्चाली गौडीयावन्तिका तथा । लाटीया मागधी चेति पोढा रीतिर्निगद्यते' इत्याह । रसावस्थानसूचिकानामन्यैरभिहितानामपि कैशिक्यादिवृत्तीनामिहानिरूपणं तु, रीतेर्गुणविशेषलक्षितत्वात् गुणस्य च अन्योक्तविधया प्रतिरसनियतत्वात् रीतिनिरूपणेनैव गतार्थं तन्निरूपणमिति, अत्रैवोक्तरीत्या अन्तर्भावान्न ताः पृथग्व्यपदेशमहन्तीति वा अभिप्रायेण स्यादिति मन्यामहे । ततश्च 'लोको विद्या प्रकीर्णे च काव्याङ्गानि' इत्युपक्रम्य, अनितरसाधारणमतिविशदं काव्याङ्गानि प्रतिपाद्य, 'काव्य गद्यं पद्य च' इत्यादिना काव्यभेदः सलक्षणं निरूपितः । अन्यैरभिदार्शितो ध्वन्यादिकाव्यभेदप्रकारस्तु 'नानेनादृतः ॥

 द्वितीये त्वधिकरणे प्रथमतः पदपदार्थदोषनिरूपणं परस्ताच्च वाक्यवाक्या- र्थदोषनिरूपणमारचितम् । अत्र च प्रकरणे परिमिता एव दोषाः प्रदर्शिताः प्राचा वामनेन । प्रकाशादिषु तु महता प्रघट्टकेन दोषाणामवान्तरभेदा अपि बहवो निरूपिताः । संज्ञाया एकत्वेऽपि वामनमम्मटादीनां लक्षणभेदेन एकस्य लक्षणम- परस्य इतरस्य लक्षणमन्यस्येत्येवमापतितमिति सुगममेवेदं बहुग्रन्थपरिशीलिनाम् । इदमस्माकमत्र प्रतिभाति--- कालानुसारेण तात्तत्कालिकव्युत्पित्सुसमुदायानुरोधेन च खलु दोषाणामुचितं परिगणनम् । पूर्वे हि परीक्षका व्युत्पत्तिदार्ढ्यात्कठिनमपि पदजातमर्थतोऽवगन्तुमलमभूवन् । रसप्रतीतिः परं यत्र स्थगिता भविष्यति, तत्रैव दोषबुद्धिं कलयामासुः । तथा च तदानीं रसप्रतीतिस्थगनपराणामेव, न तु अर्थप्रतीतिस्थगनकारिणां दोषाणां दोषत्वमिति संख्यया तेषां न्यूनता स्वाभाविक्येव । क्रमेण च साहित्यपरिश्रमस्येव व्युत्पत्तेरपि परिक्षीणतया अर्थप्रतीति- स्थगनपराणामपि क्लेशानां कालानुरोधेन दोषगणना अवश्यकतव्या संवृत्तेति तदिदमेव स्यात्कारणमर्वाचीनानामालंकारिकाणामधिकाधिकं दोषनिरूपणे कारणमिति ।।

1. 'वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलंकारत्वं ब्रुवता कश्चित् ध्वनिभेदोऽलकारतयैवोक्तः । केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मत्वेनोक्ता' इति सर्वस्वकारः।