पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७ अध्यायः काव्यालंकारः। ८७ उत्कण्ठेति । अत्र सुखाय मृगलोचनां स्त्रियं दृष्ट्वा न केवलं सुखं न प्राप्तं यावदनर्थं उत्कण्ठादिकः प्राप्तः। क्रियाविपत्तिरत्र दर्शनच्छेदः । अथानुमानम् वस्तु परोक्षे यस्मिन्साध्यमुपन्यस्य साधकं तस्य । पुनरन्यदुपन्यस्येद्विपरीतं चैतदनुमानम् ॥ । १६ ॥ वस्त्विति । साध्यं परोक्षे वस्तु यत्र प्रथममुपन्यस्य पुनस्तस्य साधकं हेतुं कविरुप न्यस्येत्तदनुमानमलंकारः। तथापि विपरीतं चेति पूर्वे साधकोपन्यास: पश्चात्साध्यनि दंशो यत्र तच्चानुमानम् । वास्तवलक्षणेनैवापुष्टार्थस्य परिहृतत्वादग्निरत्र धूमादित्यलं कारत्वं न भवति । साधकमिति जातावेकवचनम् । तेन द्वयोर्बहुषु च साधकेषु भवति । यथा—‘स्पष्टाक्षरमिदं यत्नान्मधुरं स्त्रीस्वभावतः । अल्पाङ्गत्वादनिह्नदि मन्ये वदति सारिका ।’ साधकग्रहणादेव वस्तुनः साध्यत्वे लब्धे साध्यग्रहणमवस्तुखेन सिद्धस्या- भावस्यापि वस्तुत्वप्रतिपयर्थम् । यत्साध्यं तद्रावरूपमभावरूपं वा भवत्विति क्त्वाप्रत्य येनैव पुनः शब्दार्थे लब्धे साध्यसाधकयोश्च विलक्षणत्वादन्यत्वे सिद्धे पुनरन्यपदग्रहणं बहूनां साधकानामुपन्यासे सत्यनुमानोज्ज्वलत्वख्यापनार्थम् । साधकमुपन्यस्येत्पुनश्च- न्यदुपन्यस्येदिति शब्दशक्त्यैव वा भूयस्ता प्रतीतिः । उदाहरणमाह सावज्ञमागमिष्यनूनं पतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे यावकरंसतिलकपझिरियम् ॥ ५७ ॥ सावज्ञमिति । अत्र पादपतनं साध्यमुपन्यस्य ललाटगतयावकरसतिलकपङ्किः सा धकमुपन्यस्तम् । तथा वचनमुपचारगर्भ दूरादुद्गमनमासनं सकलम् । इदमद्य मयि तथा ते यथासि नूनं प्रियं कुपिता ॥ १८ ॥ वचनमिति । अत्र वचनादीनि पूर्व साधकान्युपन्यस्तानि पश्चात्कुपितत्वं साध्य मिति वैपरीत्यम् ॥ अथ भेदान्तराण्याह- यत्र बलीयः कारणमालोक्याभूतमेव भूतमिति । भावीति वां तथान्यत्कथ्येत तदन्यदनुमानम् ॥ १९ ॥ यत्रेति । यत्रालंकारे बलवत्तरकारणदर्शनेनान्यदिति कार्यमभूतमेवानुत्पन्नमेत्र भूत- त्वेन भावित्वेन वा कथ्येत तत्तथेति पूर्ववद्यथापूर्वं साध्यमुपन्यस्य साधकोपन्यासः हैं साधकं चोपन्यस्य साध्योपन्यास इत्येवं चतुर्धा तदन्यत्पूर्वोक्तादपरमनुमानम् ।