एतत् पृष्ठम् परिष्कृतम् अस्ति
८८ काव्यमाला । १
उदाहरणान्याह-
अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः।
अयमायातः कालो हन्त मृताः पथिकगेहिन्यः ॥ ६० ॥
अविरलेति । अत्रादौ बलवतः कालस्य साधकस्योपन्यासः पञ्चात्साध्यस्य मरणस्य
भाविनोऽपि मृता इति भूतत्वेन निर्देशः ॥
तथा-
दिष्टया न मृतोऽस्मि सखे नूनमिदानीं प्रिया प्रसन्ना मे ।
ननु भगवानयमुदितस्त्रिभुवनमानन्दयन्निन्दुः ॥ ६१ ॥
दिष्ठयेति । अत्र प्रिया प्रसादस्य साध्यस्य भाविनो भूतत्वेनादावुपन्यासः पश्चाच्चन्द्रो
दयस्य बलवतः साधनस्येति भूतोदाहरणम् ॥
भाविन्याह-
यास्यन्ति यथा तूर्ण विकसितकमलोज्ज्वलादमी सरसः ।
हंसा यथैवमेतां मलिनयति घनावली ककुभम् ॥ ६२ ॥
यास्यन्तीति । अत्र हंसगमनस्य साध्यस्यादौ भावित्वेन निर्देशः पश्चात्साघनस्य बल
वतो घनावलीलक्षणस्येति ।
तथा-
वहति यथा मलयमरुद्यथा च हरितीभवन्ति विपिनानि ।
प्रियसखि तथेह न चिरादेष्यति तव वकुभो नूनम् ॥ ६३ ॥
वहतीति । अत्र पूर्वं बलवतो मलयवातादिकस्य साधकस्य निर्देशः । पश्वादूलल्भाग
मनस्य साध्यस्य भावित्वेनेति ।
अथ दीपकम्-
यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं भवति ।
तद्वत्कारकपदमपि तदेतदिति दीपकं द्वेधा ॥ ६४ ॥
यत्रेति । यत्रानेकेषां वाक्यार्थानामेकं क्रियापदं भवति तद्वत्कर्त्रादिकारकपदं वा त
दिव्यमुना प्रकारेण दीपकं द्वेधा । क्रियादीपकं कारकदीपकं चेत्यर्थः ।
अथास्यान्वर्थभेदान्दर्शयितुमाह-
आदौ मध्येऽन्ते वा वाक्ये तत्संस्थितं च दीपयति ।
वाक्यार्थानिति भूयस्त्रिधैतदेवं भवेत्पोढा ॥ ६१ ॥
आदाविति । तदिति द्विविधं दीपकं पद्यादिलक्षणवाक्यस्यादौ मध्येऽन्ते वावस्थितं