म साधं क्षयं गच्छति । अत्र संतापस्य वराकीक्षयस्य च शब्देन प्राधान्यम् । अपराध
स्नेहयोस्तु तत्कारणयोरप्राधान्यम् । अत एव तृतीया । तत्त्वतस्तु भवदपराधा वर्धन्ते
तस्याः संतापेन सह । भवत्स्नेहश्च क्षीयते तया सहेति । यदा त्वेवमुच्यते तदा पूर्वैव
सहोक्तिरिति । पूर्वस्यां कर्तुः प्राधान्यं क्रियमाणस्य गुणभावः । इह तु क्रियमाणस्य
प्राधान्यं कुर्वतस्त्वप्राधान्यमिति भेदः ।
प्रकारान्तरमाह--
अन्योन्यं निरपेक्षौ यावर्थावेककालमेकविधौ ।
भवतस्तत्कथनं यत्सापि सहोक्तिः किलेत्यपरे ॥ १७ ॥
अन्योन्यमिति । यावर्थौ पूर्वोक्तसहार्थीभावात्परस्परं निरपेक्षावेकविधौ समानधर्मयुक्तौ
तल्यकालं भवतस्तयोर्यत्सह कथनं सापि किल सहोक्तिरित्यपरे केचित् । किलशब्दो
ऽत्रारुचौ । अरुचिश्चोक्तसहार्थाभावादिति ॥
निदर्शनमाह
कुमुददलैः सह संप्रति विघटन्ते चक्रवाकमिथुनानि ।
सह कमलैर्ललनानां मानः संकोचमायाति ॥ १८॥
कुमुददलैरिति । प्रदोषवर्णनमेतत्सुगममेव । अत्र न कुमुददलैश्चक्रवाकाणां तैर्वा तेषां
विघटना क्रियते । अपि तु कालेन । तथा न कमलैर्मानस्य मानेन वा तेषां संकोचो
जन्यते । अपि तु रात्र्या, शशिना वा । औपम्यं न विवक्षितम् ।।
अथ समुच्चयमाह-
यत्रैकत्रानेकं वस्तु परं स्यात्सुखावहाद्येव ।
ज्ञेयः समुच्चयोऽसौ त्रेधान्यः सदसतोर्योगः ॥ १९॥
यत्रेति । यत्र समुच्चये एकत्राधारेऽनेकं वस्तु द्रव्यगुणक्रियाजातिलक्षणं परमुत्कृष्टं
शोभनत्वेन वा स्यात्स समुच्चयः । तथा सुखावहाद्येवेति । सुखमावहत्युत्पादयतीति सु-* ;
खावहम् । आदिग्रहणाहुःखावहादिपरिग्रहः । एवशब्दः समुच्चये । सुखावहादि च य
त्रानेकं द्रव्यादि स्यात्सोऽपि समुच्चय इत्यर्थः । तथा त्रेधान्यः सदसतोयगः । त्रेधा
त्रिविधःअन्यः प्रकारान्तरेण समुच्चयः । कीदृशः । सदसतोर्योगग इति । सतोः सुन्दर
योर्योग इत्येकः । असतोरसुन्दरयोर्योग इति द्वितीयः । सदसतोः सुन्दरासुन्दरयोर्योग.
स्तृतीयः । अत्र च सदसतां योग इति बहुवचनेन निर्देशे न्याय्ये द्विवचननिर्देशो द्वयोरेव
सतोरसतोः सदसतोर्वा समुच्चयो नान्यथा इति ख्यापनार्थः ।
एतदुदाहरणानि क्रमेणाह
दुर्गे त्रिकूटं परिखा पयोनिधिः प्रभुर्दशास्यः सुभटाश्च राक्षसाः ।
नरोऽभियोक्ता सचिवैः प्लवंगर्मैः किमत्र वो हास्यपदे महद्भयम् ॥ २० ॥
पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/७८
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
काव्यमाला ।
