पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
काव्यमाला ।


इत्याह-अतिरसादिति । अतिरसहृतहृदयानां हि प्रायशो मर्यादोल्लङ्घनमपि भवति । एतदुक्तम् –‘गणयन्ति नापशब्दं न वृत्तभङ्गं क्षयं न वार्थस्य । रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च’।। यद्यन्यथात्वं निवार्यते तर्हि कथं दिगाकाशादिष्वमूर्तेषु मूर्तधर्माः कविभिर्वर्ण्यन्ते । यथा-निर्मला दिशः । निर्मलं नभ इति । तथा विचेतनेषु सचेतनधर्मा इत्याह

     सुकविपरम्परया चिरमाविगीततयात्यन्थ निबद्धं यत् ।
     वस्तु तदन्यादृशमपि बध्नीयात्तत्प्रसिद्धयैव ॥ ८॥

सुकवीति । पूर्वसुकवीनां परम्परया समूहेन चिरं बहुपूर्वकालेविगीततयाविगनेन निर्दोषतयेति यावत् । यद्वस्त्वन्यथा निबद्धं तदन्यादृशमपि तत्प्रसिद्धयैव बध्नीयात् । न त्वात्मबलेन । महाकविप्रसिद्धिरेवात्र प्रमाणमित्यर्थः ।। सप्रभेदमर्थमभिधाय सांप्रतं तदलंकारानाह

     अर्थस्यालंकारा वास्तवमौपम्यमतिशयः श्लेषः ।
     एषामेव विशेषा अन्ये तु भवन्ति निःशेषाः ॥ ९ ॥

अर्थस्येति । उक्तलक्षणस्यार्थस्य वास्तवादयश्चत्वारोऽलंकारा भवन्ति । चतुर्भिः प्रकारैरसौ भूष्यत इत्यर्थः । नन्वन्येऽपि रूपकादयोऽलंकाराः सन्ति तत्किमिति चत्वार एवोक्ता इत्याह--एषामेवेत्यादि । तुर्हेतौ । एषामेव सामान्यभूतानां चतुर्णांं ते भेदा यतस्ततो मूलभेदत्वेन नोक्ता इत्यर्थः ।

 यथोद्देशस्तथा लक्षणमिति वास्तवलक्षणमाह--
      वास्तवमिति तज्ज्ञेयं क्रियते वस्तुस्वरूपकथनं यत् ।
      पुष्टार्थमविपरीतं निरुपममनतिशयमश्लेषम् ॥ १० ॥
  वास्तवमिति । यद्वस्तुस्वरूपकथनं क्रियते तद्वास्तवमिति ज्ञेयम् । वस्तुन इदं वास्तवमिति कृत्वा । इतिशब्दोऽर्थनिर्देशे । वास्तवशब्दवाच्यः सोऽर्थ इत्यर्थः । पुष्टार्थग्रहणमपुष्टार्थनिवृत्यर्थम् । तेन ‘गोरपत्यं बलीवर्दस्तृणान्यत्ति मुखेन सः । मूत्रं मुञ्चति शिश्नेन

अपानेन तु गोमयम् ॥’ अस्य वास्तवत्वं न भवति । अविपरीतग्रहणं विवक्षितविपरीतार्थस्य वास्तवत्वनिवृत्यर्थम् । यथा—‘दन्तान्निर्दलयद्रसां च जडयत्तालु द्विधा स्फोटयन्नाड्यः संघटयद्गलद्गबिलादान्त्राणि संकोचयत् । इत्थं निर्मलकर्करीस्थमसहप्रालेयवाताहतं नाधन्याः प्रचुरं पिबन्त्यनुदिनं प्रोन्मुक्तधारं पयः। अत्र हि पयसः शीतलत्वमाह्लादकत्वं च विवक्षितम् । तद्वैपरीत्यं च प्रतीयते । निरुपमादिग्रहणं त्वनुवादमात्रम् । न तूपमातिशयश्लेषाणां वास्तवत्वनिवृत्तये। पृथगुपादानादेव तेषामन्यत्वसिद्धेः। अथ वास्तवप्रभेदानाह--

    तस्य सहोक्तिसमुच्चयजातियथासंख्यभावपर्यायाः ।
    विषमानुमानदीपकपरिकरपरिवृत्तिपरिसंख्याः ॥ ११ ॥