पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७ ध्यायः]
७५
काव्यालंकारः ।


माह- सहजेत्यादि । तत्र सहजो गुणो यथा-क्षत्रिये शौर्यम् । काके कार्ष्ण्यम् । आहार्यो यथा-शास्राभ्यासात्पाण्डित्यम् । पटे रागः । आवस्थिको यथा-फलानां लौहित्यम् । केशानां शौक्ल्यम्। ॥ अथ क्रिया

      नित्यं क्रियानुमेया द्रव्यविकारेण भवति धात्वर्थः ।
      कारकसाध्या द्वेधा सकर्मिकाकर्मिका चेति ॥५॥

नित्यमिति । धात्वर्थः क्रिया भवति । "क्रियाभावो धातुः" इति वचनात् । सा तु न प्रत्यक्षा। किं तु द्रव्यस्य तण्डुलादेर्विकारेण वैक्लेदादिनानुमेया । गमनादिका तु देशान्तरप्राप्त्यादिनेति । सा च कारकैः कर्तृकर्मादिभिः साध्या निष्पाद्या । यदुक्तम्-सर्व कारकनिर्वर्त्या कर्तृकर्मद्वयाश्रया । आख्यातशब्दनिर्देश्या धात्वर्थः केवलं क्रिया ।' सापिसकर्मिकाकर्मिकात्वभेदेनन द्वेधा । आद्या ग्रामं गच्छतीत्यादिका । द्वितीया आस्ते शेते इत्यादिका । नियतानियतकर्मिकात्वसमुच्चयार्थश्च शब्दः । तत्राद्या कटं करोतीति । द्वितीया वहति भारम्, वहति नदी । अथ जातिः--

       भिन्नक्रियागुणेष्वपि बहुषु द्रव्येषु चित्रगात्रेषु ।
       एकाकारा बुद्धिर्भवति यतः सा भवेज्जातिः ॥ ६।। 

भिन्नेति । बहुषु द्रव्येषु यतो यद्वशादेकाकारा समाना बुद्धिर्भवति सा जातिर्भवेदिति । कदाचित्समानगुणक्रियायोगात्सा बुद्धिर्भवेदित्याह--भिन्नेत्यादि । भिन्नौ विलक्षणौ क्रियागुणौ येषु तेष्वपि । कदाचिदत्यन्तमवयवसादृश्याद्वा सा स्यादित्याह--चित्रगात्रेष्विति । चित्रं नानारूपं काणकृशकुब्जादिकं गात्रं येषां तेषु । सा च जातिस्त्रिष्वपि द्रव्यक्रियागुणेषु समवेतेति त्र्याश्रया । अथासामेव द्रव्यगुणक्रियाजातीनामन्यथात्वनियममाह-

      सर्वः स्वं स्वं रूपं धत्तेऽर्थो देशकालनियमं च ।
      तं च न खलु बध्नीयान्निष्कारणमन्यथातिरसात् ॥ ७ ॥

सर्व इति । सर्वोऽर्थो द्रव्यगुणक्रियाजातिलक्षणः स्वं स्वमात्मीयं स्वभावं देशकाल- नियमं च धत्ते । नियते क्वापि देशे काले च नियताकारश्चार्थो भवतीत्यर्थः । ततः किमित्याह-तं चेत्यादि । चशब्दो हेतौ । खल्ववधारणे । ततः कारणात्तमर्थमन्यथा नैव बध्नीयादित्यर्थः। तत्र ये नित्या भावास्तेषां वर्तमानेन निर्देशो न्याय्यः । अतीतानां तु भूतेन । अनागतानां भविष्यत्कालेन । एवं चराचरसचेतनाचेतनादिषु द्रष्टव्यम् । देशकालनियमश्च यथा-हिमवति हिमस्य सदा सद्भावोऽन्यत्र तु शीतकाले। एवमन्यदपि। निष्कारणग्रहणं कारणसद्भावेऽन्यथात्वस्यादुष्टत्वख्यापनार्थम् । यथा शुकसारिकादीनां व्यक्तवचनत्वे मनुष्यप्रयत्नः कारणमिति । कुतः पुनर्निष्कारणस्यान्यथाभिधानपसङ्ग ।