पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
काव्यमाला ।

धानेन शब्दार्थयोर्भिन्नत्वं वाच्यवाचकभावश्च दर्शितो भवति । श्रोत्रेन्द्रियग्राह्यो हि शब्दः। तदन्येन्द्रियग्राह्यस्त्वर्थः। शब्दे चोच्चारिते सत्यर्थः प्रतीयत इति । तथा शब्दार्थो काव्य मित्युक्तम्, अतश्चक्षुनकोचमूर्धकम्पाञ्जलिदर्शनादिप्रतिपादितार्थस्य काव्यत्वनिवृत्यर्थं प्र वर्तते यस्य वाचकः शब्द इत्युक्तम् । वाचकस्यापि वाच्यसिध्यर्थं विशेषणमाह--अ- भिधा प्रतीतिः सा विद्यते यस्य स तथा। ध्वनौ हि प्रतीयमानार्थसंभव इति । प्रतीतिश्च । यस्य यो विद्यमानस्तेन यः सन्सोऽर्थ:। यस्तु न विद्यते तत्र प्रतीत्यभावान्नासावर्थ इ युक्तं भवति । लक्षणमभिधाय प्रभेदानाह--तस्येत्यादि । इति परिसमाप्यर्थः । तस्यार्थ स्यैतावत एव द्रव्यगुणक्रियाजातिलक्षणाश्चत्वारः प्रभेदाः । तेषां च यथोद्देशं लक्षणं वाच्यमिति कृत्वा द्रव्यस्य तावदाह जातिक्रियागुणानां पृथगाधारोऽत्र मूर्तिमद्रव्यम् । दिक्कालाकाशादि तु नीरूपमविक्रियं भवाति ॥ २ ॥ जातीति । अत्रैतेषु मध्ये द्रव्यं मूर्तिमदिन्द्रियग्राह्यमुच्यते । गुणस्य द्रव्यत्वनिवृत्यर्थ- माह-पृथक्प्रत्यके जातिगुणक्रियाणामाधार आश्रयः । जात्यादयो हि न कदाचिदपि द्रव्यं विना भवन्तीति । पृथग्ग्रहणं तु केवलानामपि जात्यादीनामाधारत्वे द्रव्यत्वप्रतिप त्यर्थम् । अन्यथा हि समुदितानामेव य आधारस्तदेव द्रव्य स्यात् । ततश्च निष्क्रिय- त्वात्पाषाणादीनां द्रव्यत्वं न स्यात् । मूर्तिमदिति वचनाद्दिगादीनां द्रव्यत्वं न स्यात् । अथ चेष्यतेऽत आह—दिकालेत्यादि । तुः पूर्वस्माद्विशेषे । मूर्त द्रव्यमुच्यते । दिक्काला काशात्ममनांसि पुनर्नारूपाण्यपि द्रव्यमित्यर्थः । तत्र नीरूपत्वादविक्रियं भवति । मूतम पुनः सविकारमेव । अथ द्रव्यभेदानाह- ॐ नित्यानित्यचराचरसचेतनाचेतनैर्बहुभिः । भेदैर्विभिन्नमेतद्विधा द्विधा भूरिशो भवति ॥ ३ ॥ नित्येति । एतद्रव्यं नित्यानित्यादिभिर्भेदैर्बहुभिद्विधा द्विधा विभिन्न सङ्गरिशोऽनेकशो में भवति। आदिग्रहणात्सवचनावचनव्यक्ताव्यक्तस्थूलसूक्ष्मनक्तंचरदिवाचरस्थलजजलजप्रभृ- तयो भेदा गृह्यन्ते । बहुग्रहणमानन्त्यप्रतिपादनार्थम् । न च वाच्यं चराचरयोः सचेतनां चेतनयोश्च न विशेष इति । वृक्षादयो व्यचरां अपि सचेतनाः ॥ अथ गुण: न द्रव्यादपृथग्भूतो भवति गुणः सततमिन्द्रियग्राह्यः । सहजाहार्यावस्थिकभावविशेषादयं त्रेधा ॥ ४ ॥ द्रव्यादिति । द्रव्यादपृथग्भूतो द्रव्यसमवायी गुणो भवति । जातिक्रिययोर्द्रव्यस्थत्वा- टुणत्वं स्यादित्याह-सततमिन्द्रियग्रायः सर्वदैव प्रत्यक्षगम्यः । नानुमेय इत्यर्थः । जा- तिक्रिये तु न प्रत्यक्षगम्ये। गुणं च केचिदुत्पाद्यसह्यजवेन द्विधेति ब्रुवते तन्निरासार्थ