पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७ ध्यायः]
७३
काव्यालंकारः ।


पुष्टेति । मध्यममपि वाक्यं सादरं रचयेत् । किमविशेषेण नेत्याह--पुष्टो हृदयावर्ज कोऽर्थ एवालंकारो यस्य तत्तथाभूतम् । एतदुक्तं भवति-यद्यपि वक्रोक्यादयोऽलं कारा न सन्ति तथापि तद्विवक्षितोऽर्थः सरस उत्कृष्टो वा विधेयः । यथा-‘धूभेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्धं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः । धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ।' अपिशब्दो मध्यवाक्यस्यादुष्टवाक्यमध्ये समुच्चयार्थः । अन्यालंकार विरहात्तत्र कस्यचिदनादरः स्यादिति सादरग्रहणम् । अथ किमित्यपुष्टार्थं मध्यं नाद्रियत इत्याह-यत्किचिदित्यादि । हि यस्मादतः पुष्टार्थालंकाराद्यदन्यथान्यादृशमपुष्टार्थे तद्य किचित् । नात्यादरणीयमित्यर्थः । किमिव । यथा-गामभ्याजेति । ‘देवदत्त गाम भ्याज शुक्लां दण्डेन' इत्यत्र न शब्दार्थदोषो नापि कश्चिदलंकारो न चैतत्पुष्टार्थमतोऽत्र नादरो नाप्यनादरः । विषयस्त्वस्य कथासंधिसंहारौ । यथा-श्रियः कुरूणामधिपस्य पालनीम्’ इत्यादि । यथा च –‘इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे’ इत्यादि । अथ सर्वेषामेव शब्ददोषाणां विषयविशेषे साधुत्वं दर्शयितुमाह अनुकरणभावमविकलमसमर्थादि स्वरूपतो गच्छन् । न भवति दुष्टमतादृग्विपरीतक्लिष्टवर्णं च ॥ ४७ ॥ अनुकरणेति । असमर्थादिदोषेQष्टमपि पदं वाक्यं वाविकलं परिपूर्ण स्वरूपतोऽनुक्रि यमाणं दोषाय न भवति । अर्थभेदेन शब्दान्तरत्वादिति भावः । अनुचिकीर्षया प्रयुक्त मथ च प्रतिपादनायासमर्थं तदविकलग्रहणेन दुष्टमिति दर्यते । तथातादृशा भिन्नस्व रूपत्वादसदृशा विपरीता दुष्टक्रमाः क्लिष्टा लुप्ता वर्णा यस्य तत्तथाविधम् । तदपि पदं न दोषाय । यथा विकटनितम्बायाः पतिमनुकुर्वाणा सखी प्राह—‘काले माषं सस्ये मासं वदति शकाशं यश्च सकाशम् । उद्दे लुम्पति रं वा षं वा तस्मै दत्ता विकटनि तम्बा ।' इत्यादि । इतिश्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः षष्ठोऽध्यायः समाप्तः । सप्तमोऽध्यायः । शब्दार्थो काव्यमित्युक्तम् । तत्र शब्दलक्षणप्रभेदातृकारदोषा अभिहिताः । इदानी मर्थस्य तान्विवक्षुराह अर्थः पुनरभिधावान्प्रवर्तते यस्य वाचकः शब्दः। तस्य भवन्ति द्रव्यं गुणः क्रिया जातिरिति भेदाः ॥ १ ॥ अर्थ इति । पुनःशब्दौ लक्षणविभागार्थः । वर्णसमुदायात्मकः शब्दः। अभिहितोऽर्थः पुनः। स यस्य वाचकोऽभिधायकः शब्दः प्रवर्तते । इत्यनेन त्वर्थस्य शब्दवाच्यत्वामि-