पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
काव्यमाला ।

नागभटाय तथखेवेञराघवे । षजेथाढेपचेमेठे दोणसछलडेफङे ।' अमुं श्लोकं ‘सेनाली’ इत्यादि प्रस्तुतश्लोकोपरिभागे यथाक्रमाक्षरं लिखित्वा तत एतच्छ्लोकगतमातृकापठितकादिवर्णक्रमानुमिततुरगपदक्रमेण प्रस्तुतः श्लोक उच्चेय इति ॥

 अथ गजपदपाठमाह—

  ये नानाधीनावा धीरा नाधीवा राधीरा राजन् ।
  किं नानाशं नाकं शं ते नाशङ्कन्तेऽशं ते तेजः ॥ १६ ॥

 य इति । अत्र–ये, नानाधीनावा:, धीराः , न, अधीवाः , राधीराः, राजन्, किं, नानाशं, नाकं, शं, ते, न, आशङ्कन्ते, अशं, ते, तेजः, इति पदानि । पदार्थस्त्वेवम् — यथा कश्चिद्राज्ञः कस्यापि सेवकानभिनन्दति-हे राजन्, ये तदीयभ्रुत्या एवंगुणयुक्तास्ते किं नाकस्येदं नाकं स्वर्गसक्तं शं शिवं सुखमाशङ्कन्ते । नञ उत्तरत्र संबन्धः। किंशब्दकाक्वावश्यं तेषां स्वर्गसुखं भवतीत्यर्थः । कीदृशा ये । नानाविधा आधयो यस्य स नानाधिः स चासाविनश्व प्रभुस्तमवन्ति विनाशाद्रक्षन्तीति नानाधीनावाः । तथा धीराः सत्त्वयुक्ताः । तथा दुष्टा धीर्बुद्विरधीस्तां वान्ति गच्छन्त्याश्रयन्त्य​धीवा एवंविधा न । तथा ‘राधो हिंसायाम्’ । राधिनो हिंसकास्तानीरयन्तीति राधीराः । शं कीदृशम् । नानाविधा आशाः सुखाभिलाषा यत्र तन्ननाशम् । किं च ते तव संबन्धि यत्तेजस्तदशं दुःखरूपमित्येवं नाशङ्कन्ते । प्रभुतेजोऽस्माकं नाशायेति चेतसि नैव कुर्वन्तीत्यर्थः । अत्र गजपदन्यायेन श्लोक उत्पद्यते । स च श्लोकगतप्रथमनवमद्वितीयदशमतृतीयैकादशचतुर्थद्वादशादिक्रमेण उच्चेय इति ॥

 अथ प्रतिलोमानुलोमपाठं स्रग्धरावृत्तमाह—

वेदापन्ने स शक्ले रचितनिजरुगुच्छेदयत्नेऽरमेरे
देवासक्तेऽमुदक्षो बलदमनयदस्तोददुर्गासवासे ।
सेवासर्गादुदस्तो दयनमदलवक्षोदमुक्ते सवादे
रेमे रत्नेऽयदच्छे गुरुजनितचिरक्लेशसन्नेऽपदावे ॥ १७ ॥

  वेदापन्न इति । स कश्चिद्गुणिप्रियो रत्ने गुणवति जने रेमे ननन्दं । ‘जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' । वेदानापन्नो वेदापन्नस्तत्र । अधीतवेद इत्यर्थः । तथा शक्ले प्रियंवदे । तथा रचितः कृतो निजाया रागद्वेषात्मिकाया रुजो बाधाया उच्छेद उन्मूलने यत्नो येन तस्मिन्रचितनिचरुगुच्छेदयत्ने । तथा न रमन्ते सुजनेषु धर्मे वा ये ते अरमा दुर्जनास्तानीरयति यस्तस्मिन्नरमेरे । तथा देवेष्वासक्तो देवासक्तस्तस्मिन्देवासक्ते । देवपूजोद्यत इत्यर्थः । स कीदृशः । न मोदन्ते प्रमोदं यान्तीत्यमुन्दि अक्षाणीन्द्रियाणि यस्य सोऽमुदक्षो जितेन्द्रियः । तथा बलदमनयदः शक्युपशमनीतिदाता । रत्ने कीदृशे। तोदस्य व्यथाया दुर्गा इव दुर्गाः परानभिभूतास्तानप्यस्यन्ति क्षिपन्तीति तोददुर्गासास्तेषां वासे निलये । शूराणामपि शूरा यमाश्रिता इत्यर्थः । स कीहशः । सेवायां परप्रणतौ सर्ग