पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५ अध्यायः]
५३
काव्यालंकारः ।

अधः, ‘कं’ उपरि । तत्र ‘हि’ द्विरावृत्तिः, ‘मातंनुकं’ एते द्विरावृत्तयः । द्वितीयश्लोकेन हलम् । तत्र हलप्रविष्टेषाशल्यभागे ‘तं’शब्दः, ‘मा’ तस्य पृष्ठे, ‘नामु’ फलतीक्ष्णाग्रे, ‘गानङ्गविधि पादं तमुद्यवर्णाः फलेऽनुलोमविलोमश्रेणिद्वयस्थाः,‘गयित्वा शिरस्यस्य’ इतीषायाम् , ‘निपात्या’ हलोध्र्वभागे, हकारो हलोध्र्वभागे कीलिकाशल्यमध्ये, हकारोवें ‘न्ति', हकाराग्रे ‘रं’, हकारपृष्ठे ‘सा’ । मारारिप्रमुखैरेभिरष्टभिः श्लोकैरष्टारं चक्रमुत्पद्यते । अत्र पूर्वार्धान्यष्टाराः। अन्यार्धानि त्वेका नेमिः । ‘मा'शब्दो नाभिः सर्वसाधारणः। अर्थान्त्यश्लोकान्त्याक्षराणि च। अत्र च चक्रे स्वनामाङ्कभूतोऽयं श्लोकः कविनान्तर्भावितो यथा—

   ‘शतानन्दापराख्येन भट्टवामुकसूनुना ।
   साधितं रुद्रटेनेदं सामाजा धीमतां हितम् ।।'

अस्यार्थः—वामुकाख्यभट्टसुतेन शतानन्द इत्यपरनाम्ना रुद्रटेन कविना साधितं निष्पादितमिदं चक्रं काव्यं वा। कीदृशेन । साम गतिविशेषमजति प्राप्नोतीति सामान्, तेन सामाजा । सामवेदपाठकेनेत्यर्थः । तच्च धीमतां बुद्धिमतां हितमुपकारकम् । न्यासः । तृतीयश्लोकेन रथपदानि पूर्यन्ते । रथपदन्यायेन युक्पादयोरावृत्तिनिवृत्तिभ्यां

अथ तुरगपदपाठः—

  सेना लीलीलीना नाली लीनाना नानालीलीली ।
  नालीनालीले नालीना लीलीली नानानानाली ॥ १५ ॥

 सेनेति । तत्र—सेना, लीलीलीनाःन,आली, लीनानाः,नानालीलीली, न, आलीनाली, ईले, ना, आलीनाः,लीलीली, नानाना, अनाली, इति पदानि । पदार्थस्त्वयं यथा–कश्चिद्वक्ति-अहं ना पुरुषः सेनाः पृतना ईले स्तौमिं। ‘६डं स्तुतौ' । वर्तमानायां ए। सेनाः स्तौम्यहमिति संबन्धः । यद्वा परोक्षायां 'ईले' इति रूपम् । बहुलत्वादाम्प्रत्ययाभावः । ततः कश्चिन्ना सेना ईले । तुष्टावेत्यर्थः। कीदृशीः सेनाः । लीला विद्यते येषां लोलिनस्तौतीत्येवंशीलो लीलीली स इनः स्वाम यासां ता लीलीलोनाः । ना कीदृशः । आलमनर्थेऽसत्यं वा विद्यते यस्य स आली एवंविधो न । तथा लीनानि संबद्धान्यनांसि शकटानि शकटारूढा वा जना यस्य स लीनानाः । तथा नानाप्रकारा आल्यः पतयो नानाल्यस्तासां लीः श्लेषस्तां लान्ति गृहन्ति ये ते नानालीलीलाः परुषा विद्यन्ते यस्य स नानालोलीली । व्यूहाश्रितनरनायक इत्यर्थः । तथा आलीनानामाश्रितानामाली अनर्थकरः आलीनाली एवंविधो नं । सेवकानुकूल इत्यर्थः । कीदृशीः सेनाः। आलीना आश्लिष्टाः । ना कीदृशः । लीलिनी लीलावती सुखितस्मात्प्राणिनामिला भूर्येषां ते लीलीला नृपास्ते यस्य सन्ति स लीलीली । तथा नानाप्रकारो न मनुष्यो यस्य स नानाना । तथा आली मूखर् उच्यते आलमस्यास्तीति वा न आली अनाली । प्राज्ञ इत्यर्थः । अत्र तुरगपदपरिज्ञानाय श्लोको यथा –‘कशझे−