पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
काव्यमाला ।

३० काव्यमाला। पादेति । चतुर्णामपि पादानां यान्यर्धानि तानि तत्रैव पादे परिवृत्तानि सन्ति । पादे पादे समुद्गकसादृश्यात्पादसमुद्कं नाम यमकं कुर्वन्ति । तच्च पादेष्वन्तरितेषु व्यवहिते- ष्वनन्तरितेषु च तथा व्यस्तेषु केवलेषु समस्तेषु च पादेषु बहुधा भवति । ते च बहवः प्रकाराः पञ्चदश । कथमन्तरितं तावत्पञ्चधा । प्रथमतृतीययोर्द्वितीयेन, द्वितीयचतुर्थ- योस्तृतीयेन, प्रथमतृतीयचतुर्थानां द्वितीयेन, प्रथमद्वितीयचतुर्थानां तृतीयेनान्तरणम् । इत्येकान्तरितं चतुर्भेदम् । प्रथमचतुर्थयोस्तु द्वितीयतृतीयाभ्यामिति द्व्यन्तरितमेकमेव। इत्यन्तरितं पञ्चभेदम् । अनन्तरितमपि प्रथमद्वितीययोर्युगपह्वितीयतृतीययोर्वा तृतीयचतु- र्थयोर्वेति द्वियोगे त्रिभेदम् । त्रियोगेण तु प्रथमद्वितीयतृतीयानां द्वितीयतृतीयचतुर्थानां चेति द्विभेदम् । एवमेकत्रानन्तरितं तत्पञ्चघा । तथा व्यस्तेषु चतुर्षु पादेषु चत्वारो भेदाः, समस्तेषु त्वेक एव भेदः । इत्येवं सर्वे पञ्चदश ।। तत्राद्येऽन्तरितभेदद्वये तथा पञ्चदशे समस्तजभेदे च दिक्प्रदर्शनायोदाहरणत्रय- माह। यथा- मुदा सेनामुदासेनादसौ तामसमञ्जसम् । महीनाथमहीनाथ जयश्रीरालिलिङ्ग तम् ॥ ३७ ॥ मुदेति । असौ महीनाथो राजा तां सेनां मुदा हर्षेण इनात्स्वामिनः सेनाभर्तुः सका- शादुदास चिक्षेप । वियोजितवानित्यर्थः । कथम् । असमञ्जसमितस्ततः । अथानन्तरं महीनाथमहीना संपूर्णा जयलक्ष्मीरालिलिङ्ग परिषष्वजे ॥ द्वितीयोदाहरणमाह- यत्त्वया शात्रवं जन्ये मदायतमदायत । तेन त्वामनुरक्तेयं रसायत रसायत ॥ ३८ ॥ यदिति । कश्चिद्राजानमाह—यद्यस्मात्त्वया शात्रवं शत्रुगणो जन्ये रणेऽदायतालू- यत । तेन हेतुनेयं रसा पृथ्व्यनुरक्ता सती त्वामयतागता । 'अय गतौ' इत्यस्य रूपम् । कीदृशम् । शात्रवं मध्नातीति ​मत् रिपुमथनसमर्थम् । आयतं विस्तीर्णम् । यद्वा मदेनायतम् । कीदृशी रसा। आयतरसा त्वां प्रति दीर्घाभिलाषा ॥ तृतीयोदाहरणमाह- रसासार रसासार विदा रणविदारण । भवतारम्भवतारं महीयतमहीयत ॥ ३९ ॥ रसासारेति । हे रसासार भूश्रेष्ठ, तथा रसानां शृङ्गारादीनामासार वेगवर्षतुल्य, तथा रणविदारण समरभेदक, भवता त्वया, विदा पण्डितेन, आरम्भवता सोद्योगेन, आरं शात्रवमहीयत हानिं नोतम् । जितमित्यर्थः । कीदृशम् । मह्यां पृथिव्यां यतं संबद्धम् । हर्म्यादिवियोजितत्वादिति । अन्यदेशावृत्तौ मनोहारित्वमाश्रित्यैते त्रिंशद्भेदा जाताः । यथान्तादिके षट्कमाद्यन्तके षट्कमिति द्वादश संभवन्ति। सप्तमभेदाभ्यां सह चतुर्दश ।