पञ्चदशार्धपरिवृत्तिः। तथामी पादसमुद्भकभेदाश्च पञ्चदशेति । यथेष्टं चावृत्तावसंख्याता
भेदाः संभवन्ति । ते तु नोक्ताः । कविलक्ष्येष्वदर्शनादरम्यत्वाचेति ॥
अधुना प्रकारान्तरमाह
आवृत्तानि तु तस्मिन्नाद्यर्धान्यर्धशो विभक्तानि ।
वक्रे तथा शिखान्त्यान्युभयानि च जायते माला ॥ ४० ॥
आवृत्तानीति । पादानामाघान्यर्धान्यर्धश: खण्डितानि तस्मिन्नेव खण्डितेऽर्थे यम-
कितानि वक्रे नाम यमकं जनयन्ति । तथान्यार्धान्यषीकृतानि तस्मिन्नेव यमकितानि
शिखां जनयन्ति । वक्रशिखयोश्च युगपद्योगे माला भवति ॥
क्रमेणेषामुदाहरणत्रयमाह-
घनाघनाभिनीलानामास्थामास्थाय शाश्वतीम् ।
चलाचलापि कमले लीनालीनामिहावली ॥ ४१ ॥
घनेति । इह कमले पदोऽलीनां भ्रमराणामावली पहिलींना श्लिष्टा । कीदृक् । च
लाचलापि चञ्चलापि । कीदृशामलीनाम् । घनाघना वार्षुकमेघास्तद्वदभिनीलानां श्यामा
नाम् । किं कृत्वा । लीनां शाश्वतीं स्थिरामास्थां वृत्तिमास्थाय कृत्वा । वक्रमिदम् ।।
यासां चित्ते मानोऽमानो नारीभ्योऽरं ता रन्ता ।
सारप्रेमा सन्नासन्ना जायेतैवानन्ता नन्ता ॥ ४२ ॥
यासामिति । सन्ना सत्पुरुषो भूयः पुनररं शीघ्रं जायेतैव भवेदेव । कीदृशः । रन्ता रमण-
शीलः। रमेरन्तर्भूतकारितार्थाद्रमयितेत्यर्थः । कास्ताः। नारीः। कीदृशीः। अनन्ताः प्रचुरा
स्तथा आसन्ना अभ्यर्णा: । यासां नारीणां चित्ते मनसि मानोऽहंकारोऽमानोऽतिबहुः ।
कीदृशः । सन्ना नन्ता नम्रः। सारप्रेमा स्थिरप्रीतिः। इति शिखा ।
भीताभीता सन्नासन्ना सेना सेनागत्यागत्या ।
धीराधीराह त्वा हत्वा संत्रासं त्रायस्वायस्वा ॥ ४३ ॥
भीतेति । कश्चिहृतो राजानमाह-हे धीर निर्भय, आधीर मनोदुःखप्रेरक, सा परकीया
सेना चमूः सेना सस्वामिका त्वा भवन्तमाह ब्रूते । कीदृशी । भीता त्रस्ता, अभीता
संमुखमागता, सन्ना सखेदा, आसन्ना निकटवर्तिनी, आगत्य समेत्य, अगत्या गत्यन्तराभा
वेन । किं तदाह-हृत्वा विनाश्य, संत्रासं भयम्, त्रायस्व पालय । पुनः कीदृशी ।
आयस्वा आयस्त्वत्सकाशादागमनमेव स्वं धनं यस्याः । इति माला ।
भूयोऽप्याह
मध्यान्यषीधीनि तु मध्यं कुर्वन्ति तत्र परिवृत्या ।
आद्यन्तान्याद्यन्तं कालीयमकं तथैकत्र ॥ ४ ४ ॥
मध्यानीति । तुः पुनरर्थे । मध्यान्यर्धार्धानि पुनस्तत्रैव मध्ये परिवृत्या मध्यं नाम
पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/३१
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
३ अध्यायः]
३१
काव्यालंकारः ।
