पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
काव्यमाला ।


तदुदाहरणानि क्रमेणाह -

चक्रं दहतारं चक्रन्द हतारम् ।
खड्गेन तवाजौ राजन्नरिनारी ॥ ४ ॥

 चक्रमिति । कश्चिन्नृपमाह-हे राजन्, तव संवन्धिना खड्गेनाजौ रणे आरं रिपुसक्तं

चत्रकं समूहमरं शीघ्र दहता घ्नता अरिनारी रिपुसत्री भर्तृवधेन हता ताडिता सती चत्रकंन्द । त्रकंन्दितवतीत्यर्थः। इति प्रथमद्वितीयपादयमकं मुखसंज्ञम् ॥

 अथ संदंशः-

सन्नारीभरणोमायमाराध्य विधुशेखरम् ।
सन्नारीभरणोऽमायस्ततस्त्वं पृथिवीं जय ॥ ५ ॥

 सन्नारीति । कश्चिन्नृपस्याशिषमाह-त्वं विधुशेखरं हरमाराध्य ततः पृथिवीं जय । कीदृशं हरम् । सत्यश्च ता नार्यश्च सन्नाथैः साध्व्यः स्त्रियस्ता बिभर्ति पोषयतीति सन्ना रीभरणः स चासावुमायश्च । ठमा पार्वती तां याति गच्छति तथा सह संयुज्यते यस्तं तथाविधम् । त्वं कीदृशः। सन्नाः खिन्ना अरीभा रिपुद्विपा यत्र स तथाविधो रणः स ड्डामो यस्य स तथा । पुनः कीदृशः । अमायो मायारहितः । साव्त्तिक इत्यर्थः । अत्र प्रथमतृतीयपादयोः संदंशनामकं यमकम् ।

 अथावृतिः -

मुदारताडी समराजिराजितः प्रवृद्धतेजाः प्रथमो धनुष्मताम् ।
भवान्बिभर्तीह नगश्च मेदिनीमुदारताडीसमराजिराजितः ॥ ६ ॥

 मुदेति। कश्चिच्चाटुककृन्नूपमाह-इह भवांस्त्वं नगश्चादिश्व मेदिनीं भुवं बिभर्ति पोष यति धारयते च। कीदृशस्त्वम्। मुदा हर्षेण, न तु भयेन, आरताडी रिपुसमूहताडनशीलः। तथा समराजिरे रणाङ्गणेऽजितोऽपरिभूतः । तथा प्रवृद्धतेजाः प्रथितप्रतापः । धनुष्मतां धानुष्काणां प्रथमो मुख्यः । नगः कीदृशः। उदारा उन्नता यास्ताख्यस्ताडिवृक्षास्तासां समा अविषमा या राजयः पङ्कयस्ताभी राजितः शोभितः। इह चतुर्थपादयमकमावृतिर्नाम।

प्रत्येकं पश्चिमयोरावृत्त्या पादयोर्द्वितीयेन ।
यमके संजायेते गर्भः संदष्टकं चेति ॥ ७ ॥

 प्रत्येकमिति । पश्चिमयोस्तृतीयचतुर्थपादयोंर्द्वितीयेन पादेन सहावृत्या प्रत्येकं पृथ ग्यमके संजायेते भवतो गर्भसंदष्टकसंज्ञिते ।।

तत्र गर्भादाहरणम् --

यो राज्यमासाद्य भवत्यचिन्तः समुद्रतारम्भरतः सदैव ।
समुद्रतारं भरतः स दैवप्रमाणमारभ्य पयस्युदास्ते ॥ ८ ॥