पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२ अध्यायः]
२१
काव्यालंकारः ।


तृतीयोऽध्यायः । अथेदानीं यमकलक्षणमाह ----

तुल्यश्रुतिक्रमाणामन्यार्थानां मिथस्तु वर्णानाम् ।
पुनरावृत्तिर्यमकं प्रायश्छन्दांसि विषयोऽस्य ॥ १ ॥

 तुल्येति । पुनरावृत्तिः पुनरुच्चारणं वर्णानां तद्यमकम् । कीदृशानाम् । तुल्या स माना श्रुतिः श्रोत्रेन्द्रियोपलब्धिः क्रमश्च परिपाटी येषाम् । श्रुतिप्रहणाद्यत्र वर्णविकारेण षत्वरत्वादिना वपुष्टा वपुस्ता इत्यादौ तथा पुनर्गता पुना रौतीत्य दौ च सत्यपि क्रमे तुल्यश्रुतित्वाभावस्तत्र यमकत्वनिरासः । क्रमग्रहणात्प्रतिलोमानुलोमसर्वतोभद्रानुप्रासा- दोन यमकत्वनिरासः । नहि तेषु तुल्यश्रुतिसद्भावेऽपि तुल्यक्रमो विद्यते । मिथोऽन्या- र्थानां परस्परं भिन्नार्थानाम् । इत्यनेन तु पुनरुक्तस्य यमकत्वव्युदासः । यथा ‘अहो | रूपमहो रूपमहो मुखमहो मुखम् । अहो कान्तिरहो कान्तिस्तस्याः सारङ्गचक्षुषः ॥’ इत्यादिषु । अन्यार्थानामित्यत्रार्थशब्दः प्रयोजनवाच्यपि । तेनेहापि यमकत्वं सिद्धं भ- वति । ‘विलुम्भितोद्दामरसेन चेतसा निरूप्यमाणं किमपि प्रिया वपुः । तदैव वैराग्यवता विभागशो निरूप्यमाणं किमपि प्रियावपुः ।' अत्र हि वर्णानामेकाभिधेयत्वेऽपि प्रयोजनं भिद्यते । अस्य च यमकस्य प्रायो बाहुल्येन च्छन्दांसि पयं विषयः । प्रायोग्रहणाद्द्य मपि क्वापीति । अथ परोक्तयमकभेदान्निरस्यन्स्वाभिमतयमकभेदांल्लक्षणाभिधानायाह

पूर्व द्विभेदमेतत्समस्तपादैकदेशजत्वेन ।
पादार्धश्लोकानामाख्या सर्वजं त्रेधा ॥ २ ॥

 पूर्वमिति । पूर्वं मूलभेदाद्यपेक्षया एतद्यमकं द्विभेदम् । केन भेदेनेत्याह--समस्ते त्यादि । तत्र समस्तपादश्च समस्तपादौ च समस्तपादावेत्येकशेषः । तथा एकदेशश्च सूर्य एकदेशौ च एकदेशावेति । समस्तपादजमेकदेशजं चेति भेदद्वयम् । अत्र च वक्ष्य- माणभेदाः सर्वेऽप्यन्तर्भवन्तीति पञ्चधा चतुर्दशधा चेति परोक्तवचनव्युदास इति । तत्र समस्तपादजप्रभेदानाह -पादार्धेत्यादि । पादावृत्या अधवृया श्लोकावृत्या च सम स्तपादजं त्रेधा भवति ।  तत्रापि पादावृत्तेस्तावद्वेदानाह-

पर्यायेणान्येषामायुत्तानां सहादिपादेन ।
मुखसदशायुतयः क्रमेण यमकानि जायन्ते ॥ ३ ॥

 पर्यायेणेति । पर्यायेण क्रमेणान्येषां द्वितीयादीनां त्रयाणां पादानामादिपादेन सहा वृत्तानां यमकितानां मुखसंदंशावृतिसंज्ञितानि क्रमेण यथासंख्यं यमकानि त्रीणि जायन्ते भवन्तीति ॥