पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२ अध्यायः]
२३
काव्यालंकारः ।


 य इति । यः पुरुषो राज्यं प्राप्य तस्य रक्षणांदौ निश्चिन्तो भवति । तथा प्राप्तं राज्यमिति समुत्सहर्षः । यो रतारम्भरतः सदैव निधुवनप्रारम्भासक्तः । सततं स तथाविधनृपो भरतो भरेण समुद्रतारं जलनिधितरणं बाहुभ्यामारभ्य पयसि जलमध्य उदारते निष्क्रियो भवति । कथम् । दैवं पुराकृतं कर्म प्रमाणं यत्र तत्तथेति क्रियाविशेषणम् । यः प्राप्तराज्यो निरुद्यमः स बाहुतरणप्रवृत्तजलधिमध्यस्थितनिष्क्रियनरतुल्य इत्यर्थः। इति मध्यमपादयोर्गर्भो नाम यमकम् ।

 अथ संदष्टकम् -

इदं च येन स्वयमात्मभोग्यतां समस्तकाञ्चीकमनीयताकुलम् ।
नितम्बबिम्बं कथमस्तु नो नृणां स मस्तकाञ्ची कमनीयताकुलम्॥ ९ ॥

 इदमिति । कश्चिद्रागी परस्त्रियं दृष्ट्वा कंचिदाह-इदं नितम्बबिम्बं श्रोणोतटं येन स्वयमसहायेनात्मभोग्यतां स्वोपकारितामनीयत नीतं स तथाविधो नृणां पुंसां मस्तकाञ्ची शिरोवर्ती कथं नो अस्तु कथं मा भूत् । सौभाग्यातिशयवानित्यर्थः । कीदृशं कटीतटम् । आकुलं प्रयोगवशाच्चटुलमत एव समस्ता सम्यक्क्षिप्ता काञ्ची मेखला यतस्तत्समस्तकाञ्चीकम् । तथा च कमनीयताया रामणोयकस्य कुलं स्थानम् । अत्र द्वितीयचतु र्थपादयोः संदष्टयमकम् ।

अन्योन्यं पश्चिमयोरावृत्या पादयोर्भवेत्पुच्छः ।
सर्वैः सार्धं युगपत्प्रथमस्य तु जायते पङ्क्तिः॥ १० ॥

 अन्योन्यमिति । पश्चिमयोस्तृतीयचतुर्थपादयोः परस्परावृत्या पुच्छो नाम यमकं भवेत् । तथा प्रथमपादस्य सर्वैस्त्रिभिरन्यैः सार्धं युगपत्समकालमावृत्त्या पहेिनोम यमकं जायते ॥ तत्र पुच्छ:

| उत्तुङ्गमातङ्गकुलाकुले यो व्यजेष्ट शत्रून्समेर सदैव
स सारमानीय महारि चक्रं ससार मानी यमहारिचक्रम् ॥ ११ ॥

उत्तुङ्गोति । कश्चिद्वीरो वर्ण्यते-स मानी मानवान्नरोऽरिचक्रं रिपुराष्ट्रं ससार जगाम। कीदृशः । यः समरे रणे । कीदृशे । उत्तुङ्गमातङ्गकुलाकुल उन्नतद्विपसमूहसंकुले सदैव सर्वदैव व्यजेष्टाभ्यभूत्, शत्रून्रिपून् । कथम् । सारमुत्कृष्टं महारि महाद्भिररैर्युक्त्वं चक्रमायुधविशेषमानीयादाय। कीदृशो मानी। यमं युग्मं कृतान्तमपि वा हन्तीति यमहा।

 अथ पहुयुदाहरणम्‌-

सभाजनेनोपरि पूरितासौ सभाजने नोपरिपूरितासौ ।
सभा जनेनोऽपरिपूरितासौ सभाजने नोऽपरिपूरितासौ ॥ १२ ॥